SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ इत्यादिभावनां भावयन् परमेष्ठिनमस्कारमेकमनाः स करी सस्मार । परो निमित्तमात्रं स्वकर्मणः शुभाशुभफले । इत्थं शमसुधासिक्तो धर्मध्यानं कुर्वन् विपद्य सहस्राराष्टमदेवलोके स करी सप्तदशसागरोपमायुः सुरोऽभवत् । तत्र विमानेऽन्तर्मुहूर्तेन एकेन देवदूष्ययुग्मान्तरादुत्थितः । तत्र सेवका देवा देवांगनाश्च तस्यां शय्यायामासीनं तरुणनराकारं सर्वांगाभरणविभूषितं रत्नकुण्डलको|टीरतारहारादिभिः सहसाऽलंकृतगात्रं एवंविधं देवं तत्कालोत्पन्नं निरीक्ष्य सहर्षमिदमुचिरे - " जय जय, चिरं कालं नन्द नन्द, अस्मान् प्रीणय प्रीणय, अस्माकमनाथानां नाथो भव, वयं किंकरा आस्महे । इयं श्रीः सर्वापि तवायत्तास्ति । यञ्जानासि तत्कुरुष्व " | तत्र स सुरो विहितस्नानमंगलः कल्पतल्पपुस्तकवाचकः सिध्धालयस्थप्रतिमाः पूजयित्वा स्तुत्वा च स्थानमशिश्रियत् । तत्र सदेवदेवीगणे | मंगलक्रमे विहिते संगीतामृतलीनात्मा दिव्यभोगानबूभ्रुजत् । यतः देवाणं देवलोए जं सुक्खं तं नरेसु भणएवि । न भणे वाससएण वि जस्स वि जीहासयं हुज्जा ॥ १ ॥ केसट्ठिमंसनहरोमरुहिरवसचम्ममुत्तपुरिसेहिं । रहिआ निम्मलदेहा सुगंधनीसास गयलेवा ॥ २ ॥ | अणिमिसनयणा मणकज्जसाहणा पुप्फदाम अमिलाणा । चउरंगुलेण भूमिं न छिबंति सुरा जिणा बिंति ३ || इतश्च वरुणा करिणी दुस्तपं तपस्तप्त्वा प्रान्तेऽनशनं कृत्वा विपद्य द्वितीये कल्पे देव्यभूत् । सा देवी महारूपलावण्य संपदाधिकतरा कस्मिन्नपि देवे मनो नो चक्रे । गजेन्द्रजीवदेवस्य संगमध्यानलीनाऽभूत् । गजेन्द्रजीवो देवोऽपि तस्यां रागवान् तां रक्तामव|धिना ज्ञात्वा सहस्रारेऽप्यानयत् । पूर्वजन्माभिसंबन्धात्तस्यां महास्नेहो जातः यतः - Jain Education International For Personal & Private Use Only 56 www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy