SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ मात्मा तं मुनिराजं शिरसा नमश्चक्रे । पुनरपि तं गजेन्द्र मुनिराह-"मो गजराज शृणु । अस्मिबाटकोपमे भवे जीवो नटवबाटकरूपाणि विकरोति । त्वं पूर्वभवे द्विजः श्रावकस्तचज्ञोऽभूः । इदानीं स्वजातिजातमुढात्मा करी जातः । किं क्रियते । बहुखेदेनालं। प्राग्जन्मानुसारेण करिपुंगव त्वं कषायविषयसंगं त्यज । शमतारसं भज । सर्वविरतिक्षमोऽधुना नाति । तथापि पुनरपीह भवे द्वादशवतात्मकः श्रावकधर्मः प्राग्जन्मांगीकृतस्तवास्तु" इत्यादि साधुनोक्तं धर्मरहस्यमखिलं श्रद्धानसहितः कराग्रसंज्ञयाऽनुमेने । करिणी वरुणापि गजेन्द्रवजातिस्मरणं प्राप । मुनीन्द्रोऽपि तयोः स्थिरीकरणार्थ भूयोऽपि धर्मोपदेशं ददाति ।। गजराजोऽपि श्रावकीभूय मुनिं नत्वा सपरिकरो ययौ । पुनः सर्वे लोका अपि मिलिताः। तद्बोधविस्मिताः केऽपि दीक्षां जगृहुः। 5 केपि श्राद्धा जाताः । तदा सागरदत्तसार्थेशोऽपि श्रीजिनधर्मे दृढाशयो जातः । सोऽरविन्दराजर्षिरष्टापदाद्रौ गत्वा सर्वानहतोवन्दत । तत्रानशनं कृत्वा केवलं प्राप्य सिद्धः शिवमचलमरुजमनन्तमक्षयमव्याबाधमपुनरावृत्तिकं सिद्धिगतस्थान प्राप्तवान् । अथ स कुञ्जरः श्रावको भूत्वा शमतां भावयन् जीवदयां पालयन् षष्ठादितपः कुर्वन् सूर्यरश्मितप्तांभप्तः पानेन शुष्कपत्रादिना पारणं विधाय करिणीकेलिविमुखो विरक्तधीरिति दध्यौ-"ते पुमांसो धन्या ये मानुषभवमवाप्य प्रव्रजन्ति । गतभवे मनुष्य भवं प्राप्य मया मुघा नृभवो हारितः। अथ किं करोमि ? अधुनाऽहं पशुः" । इत्थं भावनां विभावयन् येन तेन वन्यवाहारेण काकुक्षिगुहां प्रपूरयन् रागद्वेषौ विवर्जयन सुखदुःखयोः शमतां विभ्रत् स गजः कालमगमयत् । इतश्च कमठो रोपेण मरुभूतिवधाद् गुरुणाऽभाषमाणोज्यतापसैनिन्द्यमानो विशेषेणार्तध्यानस्थो विपद्य कुर्कुटोरगोऽभूत । सोऽटव्यां दर्शनमात्रेणापि सर्वसचभयंकरोऽभूत् । स कुर्कुटोरगो दंष्ट्रया पक्षविक्षेपैनखैश्चञ्चुपुटेन च यम इव जन्तून् संहरन् अस्थात् ।। Jan Education Interations For Personal & Private Use Only
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy