________________
चरित्र
२२॥
| 'भृयो ददामि । मुनिस्वाच–'लोभान्न फलं' । ततः स कालेन मृत्वा सहस्राराष्टमदेवलोके सुरोऽभूत् । पुनरपि सुपात्रदानेन विक-4 कल्परहितत्वेन मुक्तिमवाप" । इत्यादिधर्मशिक्षा सागरदत्तसार्थवाहो निरन्तरं शृणोति । कल्पद्रुमप्राप्तिसन्निभं गुरुसंयोगं मत्वा स सार्थवाहो |
मिथ्यात्वं सर्वथा त्यक्त्वा श्रावकत्वं प्रपन्नवान् । अरविन्दमुनिना साधं सागरदत्तसार्थवाहः क्रमेण गच्छन् यत्र वने मरुभूतिर्गजराजोऽस्ति | तस्मिन् बने ससार्थोऽवसत् । तत्रासन्नं महासरः समस्ति । तत् कीदृशं ? तत्रांबुजकानने भ्रमद्भमरावलीव्याजात् पान्थानामातिथ्यहेतवे
आकारयदिव, हंससारसचक्रवाककदंबादिभिः शब्दायमानैर्गीयमानगुणोत्करमिव, मुनीश्वराणां चेतांसीव स्वच्छचारिभिर्भूतं । तत्र सरसि | |सार्थजनो नीरेन्धनान्नपचनादिभिः प्रववृते । तदा मरुभूतिकरीश्वरः करिणीभिः परिवृतस्तत्र सरस्येत्याम्भः पपौ । तत्र पयःपूणे सरसि करिणीभिः समं चिरं रत्वा निर्गतः सर पालिमारुरोह । तत्र दिशोऽवलोकयन् सार्थ पश्यन् स करी कृतान्तवत् ताम्रमुखेक्षणो नि
प्रकंपश्रवणयुगलः कुण्डलीकृतशुंडादंडो गर्जाभिः पूरितदिगन्तरालः सार्थिकान् नाशयामास । नरनार्यो वाहनानि करभादीनि दिशो | | दिशं पलायांचक्रिरे । तदा ज्ञानवान् भगवानरविन्दराजर्पिस्तस्य गजस्य ज्ञानेन बोधकालं ज्ञात्वा कायोत्सर्ग व्यधात् । स गजराजो जातिस्वभावक्रोधानुभावात् दूरतो मुनिसंमुख धावितः । तत्तपःश्रीमभावतः संजातसंवेग इव मुनेः पुरतो नूतनशिष्य इव तस्थौ । साधुस्तस्योपकारार्थ कायोत्सर्ग पारयित्वोपशान्तगंभीरवाण्या तं गजं संवोधयितुमब्रवीत्-" भो भो गजेन्द स्वकीयं मरुभूति| भवं किं न स्मरसि । मामरविन्दभूपतिं किं नोपलक्षयसि ? । प्राच्यजन्मनि मरुभूतिभवेर्हत्प्रणीतश्राद्धधर्म प्रतिपन्नं विस्मारयसि | किं । गजपते सर्व स्मर । श्वापदजातिजातमिमं मोहाज्ञानं मुश्च" । इति पीयूषसन्निभं तस्य मुनेचामृतं कर्णपुटेन पपौ । अथ &ास गजराजः शुभाध्यवसायतः तत्क्षणाजातिस्मरणं प्राप्य हर्षा(वारिणार्द्रलोचनो दूरावनतकायः करेण साधुचरणयुगलं स्पृशन् संवि
CACANCARNAMA
॥ २२॥
For Personal & Private Use Only