________________
Jain Educatio
-५५२८ ५ &CY
| भद्रकः प्रातरुत्थाय नित्यं निजापणे याति । नन्दको जिनालये जिनपूजनाथ नित्यं प्रयाति । भद्रकश्चेतसि चिन्तयति - " अहो धन्योऽयं नन्दकः, योऽन्यकार्यं त्यक्त्वा प्रातरुत्थाय प्रत्यहं जिनमर्चयति । अहं तु पापवानल्पधनो धनोपार्जनलालसोऽत्रागत्य पामराणां मुखं विलोकयामि दिवसोदये । धिग्मे जीवितं " । इति ध्यानजलेन स्वकीयं पापमलं क्षालयति । तदनुमोदनोद केन पुण्यबीजं च सिंचति, | तेन स्वर्गायुर्वद्धं । नन्दकस्त्विति चिन्तयति - " मम देवार्चनक्षणे भद्रको बदुधनमर्जयिष्यति । किं करोम्यहं ? । मयाऽभिग्रहो गृहीतः । देवार्चायाः फलं दूरे । व्यापारहानिफलं तु सद्य एव " एवमेभिः कुविकल्पैर्निजं पुण्यं हारितवान् । तेन व्यन्तरायुर्वद्धं । ततो भद्रको जिनपूजानुमोदनातः सौधर्मे देवत्वं प्राप्तः । नन्दकः कुविकल्पैर्व्यन्तरो जातः । तस्मात्कुविकल्पैर्जिनपूजनं न कार्य । शुभभावेन जिनपूजा विधेया ।
अथ कुविकल्पदानफलं शृणु – उज्जयिन्यां धन्यो नाम वणिक्पुत्रो निजापणे व्यापार योपविष्टोऽस्ति । इतश्च को - straगारो मासक्षपणकेऽटनार्थं निर्गतः । यतः
पदमपोरिस सज्झाए वीए झाणं झियाय पन्नत्ते । तईयाए गोयरीए पुणो चउत्थीय सज्झाओ ॥ १ ॥ धन्यो वणिक् मुनिं भिक्षामटन्तं वीक्ष्य भावेनाकार्य तस्य भाजने घृतं दातुमुद्यतोऽखंडधारया यच्छन् उच्चैर्गतिमुपार्जयत् । प्रवर्धमानतत्पुण्यविघाताशंकया मुनिना न वारितः । तावदातुर्मनस्वेवमभूत् - 'अहो अयमेकाकी इयता घृतेन किं करिष्यति, यत् घृतान्न विरमति ?” तेन देवलोकायुद्धं । तदा ज्ञानिमुनिनोदितं भो मुग्ध त्वमूर्ध्वगतिं बध्नीयाः, अधो मा पत' । स ऊचे -- 'असंबद्धं मा वद । ' मुनिनोक्तं - " त्वया मम घृतदानं दत्तं, तेन त्वया सुरलोकायुर्बद्धं । अथ विकल्पचिन्तनेनाधोगतिस्त्वया बध्यते” । पुनः श्राद्ध उवाच -
For Personal & Private Use Only
www.jainelibrary.org