SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ चरित्र दत्तसार्थेशस्तं मुनिं पप्रच्छ-'यूयं क्व यास्यथ ? ' । मुनिरूचे - 'अष्टापदाचले देवान् वन्दितुं यास्यामः'। सार्थेशः पुनरप्राक्षीत्-- साधो तत्र पर्वते के देवाः ? केन कारिताः ? तद्वन्दनेन च किं फलं?' । तदाऽरविन्दराजर्षिस्तमासन्नभव्यं ज्ञात्वाऽऽख्यत्-"महानु| भाव ! तत्रान्तिो देवा देवगुणान्विताः सन्ति । तेषु गुणा अनन्ताः । अष्टादशदोषरहिताः । यतः अन्नाणकोहमयमाणलोहमायारइअरई य । निद्दा सोअ अलियवयण चोरीया मच्छरभया य ॥ १॥ ___ पाणिवहपेमकीला पसंगहासा य जस्स इअ दोसा । अट्ठारस वि पणट्ठा नमामि देवाहिदेवं तं ॥२॥ तत्राचले ऋषभाद्या वीरान्ताश्चतुर्विंशतिर्जिनाः । तेषां प्रतिमाः सन्ति । इक्ष्वाकुकुलसंभवश्रीआदिनाथतीर्थकरस्य सुतो भरतचक्रवर्त्य भृत् । तेनाष्टापदाचले दिव्यमुत्तुङ्गं चैत्यं कारित । तत्र चैत्ये ऋपमादीनां चतुर्विंशतितीर्थकृतां प्रतिमाः स्वस्ववर्णरत्ननिर्मिताः स्वस्खमानेन कारिताश्च भरतचक्रवर्त्य स्थापयत् । तद्वन्दनेन नरेन्द्रस्वर्गसाम्राज्यपदलाभादिकं प्रासंगिकम् , मुख्यफलं तु मोक्ष एव । ये तु भूरिभाग्याः पुमांसस्ते एव तान् पूजयन्ति । पूजनात् दुर्गतिद्वयं च न भवति । पुनरपि सार्थेश शृणुजिनाज्ञा भूषणं मूर्ध्नि ललाटस्याञ्जलिगुरौ । सच्छूतं कर्णयोः सत्यं जिह्वायां स्वच्छता हृदि ॥१॥ पादयुग्मस्य सत्तीर्थं प्रति चंक्रमणक्रमः । जिनेन्द्रपूजनं दानं निर्विकल्पं करस्य च ॥२॥ विकल्पेन देवार्चनं यः करोति, स स्वकीयं पुण्यं हारयति । तत्रोदाहरणद्वयं शृणु । तथाहिप्रतिष्ठानपुरे द्वौ वणिजो भ्रातरी स्तः । तावेकदा पृथग्जातौ । तौ नन्दकभद्रकाख्यावापणद्वयं मण्डयतः । उभावपि श्राद्धौ । ॥ २१ ॥ Jain Educa For Personal & Private Use Only www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy