________________
चरित्र ललितांग नृपकथा.
रमणीयं कियत्कालं तारुण्यं शक्रचापवत् । प्रियाणामपि निर्वाह स्नेहरंगः पतंगवत् ॥ ३॥ आपातमधुराः सर्वे विषयाः प्रान्तदारुणाः। भवे किञ्चिन्न पश्यामि संसारासारता सदा ॥४॥ प्रतिक्षणमयं कायः क्षीयमाणो न लक्ष्यते । आमकुंभ इवांभस्थो विशीर्णः संविभाव्यते ॥ ५॥ आसन्नतरतामेति मृत्युर्जन्तोदिने दिने । आघातं नीयमानस्य वध्यस्येव पदे पदे ॥ ३॥ पितुर्मातुः शिशुभ्रात्रोस्तनयानां च पश्यताम् । अत्राणो नीयते जन्तुः कर्मभिर्यमसद्मनि ॥ ७॥
इत्यनित्यमेव सर्वम् । तथा चोक्तम्जरा जाव न पीडेइ वाही जाव न वड्डइ । जाव इंदिया न हायंति ताव धम्म समायरे ॥१॥
ते महानुभवाः कृतपुण्या ये राज्यं परित्यज्य सद्गुरोरन्तिके व्रतं गृहन्ति । अहमधन्यो राज्यलंपटः । अथ यौवनं गतं । अधुना मम प्रव्रज्या योग्या । कस्य भार्यासुतराज्यादिकम्" । इति विचिन्त्य नृपो वैराग्यवारिधौ चटितः सञ्जनसमक्षं पञ्चमुष्टिलोचं कतुं प्रारेभे । इत्थं नृपं विरक्तात्मानं व्रतोन्मुखं ज्ञात्वाऽन्तःपुरीजनो भृशं सदुःखमित्यभाषिष्ट-“हे प्राणप्रिय तब राज्यपरित्याग-18 वार्तयाऽशनितुल्ययाऽस्माकं हृदयं शतखंडं जायमानमास्ते । स्वामिन् जीवितेश्वर प्रसीद । इममाग्रहं मुश्च । इदं तपः कर्कशं क्व, इदं । सुकुमालं तव वपुः क्व । राज्यं भुंव । प्रजां पालय । भटान् रक्ष रक्ष" । इत्येवं प्रबलस्नेहनिर्भरा निजवल्लभाः प्रति संबोधयितुं प्रारब्धवान्-"प्रियाः शृणुत--
॥
in Education International
For Personal & Private Use Only
Trainelibrary.org