SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ | उदाममद निर्झरपंकिलीकृत भूभागस्तद्गन्धलुब्धागतभृङ्गालि ध्वनिबन्धुरो बहुकलभैः परिवेष्टितो जंगमपर्वत इव राजते । वरुणा कोपान्धा मृत्वा तस्यैव यूथनायकस्य वल्लभा करेणुकाऽभूत् । स करी तया सह गिरिनद्यादिषु सर्वत्र विचरन् अखंडसुखसंभोगश्चिक्रीड | इतश्च पोतनपुरेऽरविन्दनरपतेरनुपमं राज्यसुखं भुञ्जानस्य शरत्कालः प्रवृत्तवान् | सरांसि जलैः पूर्णानि । काशपुष्पाणि विकस्वराणि । सर्वत्र सुभिक्षः संजातः । लोकाः सर्वत्र मुदितानना वर्तन्ते । तस्मिन् शरत्कालेऽन्येद्युररविन्दभूपतिः सौधोपरि गवाक्षस्थितः स्त्रीभिः सह स्नेहरसनिर्भरं रममाणः सहसा व्योम्नि गर्जितोर्जितं नवोदयजलधरं शक्रचापतडिद्धरमपश्यत् । व्योमनि क्वापि स्फटिकशंखेन्दुमंडलरजत हिमानीपिंडसन्निभमभ्रपटलमपश्यत् । क्वापि अंचरे शुकपिच्छेन्द्रनीलसमप्रभमभ्रपटलमश्यत् । वापि कज्जललाजवर्गरिष्टरत्नसमप्रभमभ्रपटलमपश्यत् । एवं नयनाक्षेपकं विलोकनयोग्यं दशार्धवर्णमभ्रपटलं च जलधरं च गर्जितं वीक्ष्य नृपोऽवदत्- 'अहो चित्रं, अहो रम्यत्वं दृश्यते । एवं पुनः पुनस्तस्मिन्नृपे खसन्मुखं विलोकयति सति सहसैव तत्सर्व बाताद्विलयं गतं । तत्तादृशमाकाशस्वरूपं दृष्ट्वा संजातसंवेगो नृप इत्युवाच - ' अहो चित्रं, यत्तादृशं घनवृन्दं वातक्षिप्तार्क तूलवत् प्रलयं गतं । यथाभ्रपटलं तथाऽन्यदपि संसारे सर्व क्षणविनश्वरं । यतः विद्यालक्ष्मीरिष्टानां संगमाः पुनः । मार्गस्थतरुविश्रान्तसार्थसंयोगसन्निभाः ॥ १ ॥ यत्प्रातस्तन्न मध्याह्ने यन्मध्याह्ने न तन्निशि । निरीक्ष्यते भवे चास्मिन् पदार्थानामनित्यता ॥ २ ॥ Jain Education national For Personal & Private Use Only www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy