________________
पार्श्व०
चरित्र
इतश्च मरुभूतिज्येष्ठबन्धीः कमठस्यातिदारुणं धृत्तान्तं वीक्ष्य कुत्रापि रतिं न लभते । यथा पादपः कोटरान्तःप्रविष्टेन पावकेनान्तरा दह्यने, तथा मरुभूतिर्मनसोऽन्तरा दह्यते । अन्यदा जनवाक्याच्छ्रतं-'कमठः शिवतापससन्निधौ तापसी जात इति तदा मरु
ललितांग i भूतिना चिन्तितं--विपाके क्रोधस्य फलं दुष्टं । यत उक्तं-- १९॥
नृपकथा. ___ संतापं तनुते भिनत्ति विनयं सौहार्दमुच्छादयत्युद्वेगं जनयत्यवद्यवचनं सूते विधत्ते कलिम् । है कीर्ति कृन्तति दुर्मतिं वितरति व्याहन्ति पुण्योदयं दत्ते यः कुगति स हातुमुचितो रोषः सदोषः सताम्॥
यो धर्मं दहति द्रुमं दव इवोन्मथ्नाति नीति लतांदन्तीवेन्दुकलां विधुतुद इव क्लिश्नाति कीर्तिं नृणाम् ।।
स्वार्थं वायुरिवांबुदं विघटयत्युल्लासयत्यापदं तृष्णां धर्म इवोचितः कृतकृपालोपः स कोपः कथन् ॥२॥ का करडकुरडवत्क्रांधफलं ज्ञात्वा संवेगवान् मरुभूतिर्मनसि चिन्तयति--'अहं कथमपि कमळं क्षमयामि । इति मनसि ||
विचिन्त्य नृपं पृच्छति-'स्वामिन् वने गत्वा कमठं क्षमयामि' । इति निगद्य नृपेण वारितोऽपि मरुभूतिर्वने कमठं क्षमयितु जगाम । तस्य पादयोः पतित्वा सगद्गदमुवाच-" भ्रातस्त्वया क्षन्तव्यं । उत्तमः प्रणामान्तक्रोधा भवन्ति । ममापराधः क्षन्तव्यः" । एवं तस्य प्रणामानुनयात् कमठस्तीव्रमत्सरोऽभूत् । तप्ततैले जलप्रक्षेपवत् संजातः । एकां महतीं प्रस्तरशिलां समुत्पाट्य तस्य शिरसि |
मुमोच । पुना रक्तक्षणः कोपाटोपादेकामन्यां शिलां समुत्पाट्य कमठस्तमचूर्णयत् । प्रहरार्तिजातातध्यानो मृत्वा मरुभूतिविन्ध्याचले है भद्रजातीयो युथनायको हस्ती समभूत् । स कीदृक् ? स्थूलोपलसदृशकुंभो गंभीरमुखकन्दर ऊर्ध्वसंचारदंडाकारसुंडया युक्त है।
in Ec
latemational
For Personal & Private Use Only
www.jainelibrary.org