SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ | वरुणा पुनः पुनः कथयति । अन्यदा मरुभूतिग्रमान्तरमिवात् कमठमापृच्छय कियद्भूमिं गत्वा न्यवर्तत। संध्यायां श्रान्तकार्पटीभूय निशावासायाश्रमं कमठं ययाचे । तदा कमठेनाचिन्ति— अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते । स तस्मै दुष्कृतं दत्त्वा पुण्यमादाय गच्छति ॥ १ ॥ इति ध्यात्वा तस्य गृहकोणाश्रयं दर्शयामास । स तत्रैव स्थितो व्याजनिद्रां प्राप्तः । मरुभूतिस्तयोर्दुश्चरितं दृष्टवान् । प्रभाते कार्पटिस्ततः स्थानाद्गत्वा मरुभूतिरूपोऽयं स्वगृहे समागतः । मनसि कुपितः । यतस्तिरश्चामपि जायापरभवो दुःसहः । अथ भवितव्यता नियोगेन मरुभूतिररविन्दभूभुजे तयोर्दुश्चरितं सर्वं निवेदयामास । तच्छ्रुत्वा तेजोनिधी राजा कुपितः । स राजा धर्मिगां सौम्यः । अन्यायपथवर्तिनां यमः । अर्थिनां धनदः । दंडपाशेश्वर माकार्येत्य दिदेश -- ' भो भोः कमठस्य शीघ्रं निग्रहं कुरु' । तदा स तस्य भवने गत्वा यमदूत इव कमठं रुध्ध्वा हठाद्रासभं समारोप्य शिक्षापूर्वकं शूर्पकातपत्रं शिरसि धृत्वा, पापफलैः स्थूलबिल्वफलैहरं कंठे निवेश्य, शरावाणां कंठे वरमालां कृत्वा, काहलिकावा द्यपुरस्सरं पुरमध्ये भ्रामयित्वा विडंबयामास । यतः अवध्यो ब्राह्मणो बालः स्त्री तपस्वी च रोगवान् । विधेया व्यंगिता तेषामपराधे महत्यपि ॥ १ ॥ अतः कारणादध्यं ज्ञात्वा पुरान्निष्काश्य बहिर्मुमुचे । स्वस्थानं राजपुरुषा जग्मुः । ततः कानने एकाकी शरणरहितो दीन इतस्तस्तो भ्रमन्नेवं मनस्यचिन्तयत्- 'अहो सहोदरान्ममेदृशं जातं । तमहं कथमपि हन्मि ' इति चिन्तयन् क्षुधया रुपा च पूर्णोऽपि मरुभूतेः किमपि प्रतिकर्तुमशक्तः कतिपय दिनैस्तापसाश्रमं ययौ । तत्र शिवतापसं प्रणम्यात्मीयदुःखं निवेद्य तापसीं दीक्षां गृहीत्वा गिरौ गत्वा तपस्तपति स्म । तापसानां सेवां करोति । Jain Education national For Personal & Private Use Only ८२ helibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy