SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ | तत्र देवसुखं भुक्त्वा महाविदेहे सिद्धिमेष्यति । अतो धर्मादेव जयं ज्ञात्वा ध सदोद्यमः कार्यः"।. इति ललितांगकुमारकथा । . चरित्र ___ इति मुनेर्वाक्यं श्रुत्वा बहवो जना अबुध्यन्त । स्वस्वभावानुमानतो नियमाभिग्रहादीनादाय कृतनमस्कारा जनाः सर्वे यथास्थानं ललितांग | जग्मुः । तदा मरुभूतिः प्रकृत्या लघुकर्मा गुरूपदेशतो विषयेभ्यो विरक्तात्मा धर्मकृत्यपरायणो जातः । दाक्ष्यदाक्षिण्यसाजन्यसत्य नृपकथा. |शौचदयाभिर्गुणैः कनिष्ठोऽपि ज्येष्ठोऽभूत् । ज्येष्ठोऽपि कमठो मिथ्यात्वकठिनत्वेन मुद्गर्शलोत्पल इव स्थितः। एककुलोत्पन्नावपि न | सदृशौ भवतः । यतः एके केचिद्यतिकरगतास्तुंबकाः पात्रलीलां, गायन्त्यन्ये सरसमधुरं शुद्धवंशे विलग्नाः। एके केचिद् प्रथितसुगुणा दुस्तरं तारयन्ति, तेषां मध्ये ज्वलितहृदया रक्तमन्ये पिवन्ति ॥ १॥ तथा चप्रदीपसर्षपौ श्लाघ्यो लघू अपि गुणोज्वलो । महान्तावपि न श्रेष्ठौ प्रदीपनविभीतको ॥ २॥ भावयतिनो मरुभतेः स्वमेऽपि मारविकारो नाभत । तस्य पत्नी वसुन्धरा मदनविह्वला जाता । कमठस्य तस्यां भृशं सवि-14 कारं मनोऽजनि । ततस्तेन सविकारवचनोक्तिभिर्भशं वशीकृता । तावेव निरन्तरं निरंकुशतया कामान्धावनाचारपरी जातो स्वेच्छया | | रमतः । कमठस्य प्रिया वरुणा तदसमञ्जसं ज्ञात्वा सर्व मरुभूतये न्यवेदयत् । तत्चादृक् श्रुत्वा मरुभूतिनोक्तं- नेदृशं संभवति।। ॥१८॥ Jan Education International For Personal & Private Use Only www.janelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy