SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ 4 शंकया याति । इत्थं विभाव्य सम्यक्त्वं निःशंकमानसैर्धार्यम् । चारित्रयाने भन्ने सम्यक्त्वफलकग्रहणात् भवांभोधिं भव्यस्तरति । | निसर्गरुचिप्रमुखा दश रुवयः सम्यक्त्वधारिणा हृदये स्थाप्याः । तथा हि-- ॐ द्रव्यक्षेत्रादिभावा ये जिनः ख्यातास्तथैव च । श्रद्धत्ते स्वयमेवैतान् स निसर्गरुचिः स्मृतः ॥ १॥ है। यः परेणोपदिष्टस्तु छद्मस्थेन जिनेन वा । तानेव मन्यते भावादुपदेशरुचिः स्मृतः ॥ २ ॥ & रागो द्वेषश्च मोहश्च यस्याज्ञानं क्षयं गतम् । तस्याज्ञायां रुचिं कुर्वन्निहाज्ञारुचिरिष्यते ॥ ३॥ अधीयानं श्रुतं तेन सम्यक्त्वमवगाहते । अंगोपांगप्रविष्टेन यः स सूत्ररुचिः स्मृतः ।। ४ ।। स बीजरुचिरासाद्य पदमेकमनेकधा । योऽध्यापयति सम्यक्त्वं तैलविन्दुमिवोदके ।। ५॥ श्रीसर्वज्ञागमो येन दृष्टः स्पष्टार्थतोऽखिलः । आगमज्ञैरभिगमरुचिरेषोऽभिधीयते ॥६॥ द्रव्याणां निखिला भावाः प्रमाणैरखिलैर्नयैः । उपलंभगता यस्य स विस्ताररुचिर्मतः ॥७॥ ज्ञानदर्शनचारित्रतपःसमितिगुप्तिषु । यः क्रियासु रतो नित्यं स विज्ञेयः क्रियारुचिः ॥ ८॥ आज्ञाप्रवचने जैनः कुदृष्टावनभिग्रहः । यः स्याद् भद्रकभावेन तं संक्षेपरुचिं विदुः ॥९॥ १ स वै इति वा पाठः । २ 'यो व्यापयति' इति स्यात् । - * in Education international For Personal & Private Use Only
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy