________________
xxxxr
१६ ॥
छिनत्ति तावदङ्गारानधस्ताद्वस्येति शंका मनस्यभूत् -" शिक्वकस्य पादचतुष्केापेच्छिन्ने क्रमेण मंत्र सिद्धिमन्देहे निश्चितं वह्नि० पातो भवति । किं सुधा प्राणा हार्यन्ते १ । जीवन्नरो भद्रशतानि पश्यति " । इति विचिन्त्य समुत्तीर्यं भूमावुपागतः । किंकर्तव्यतामूढः - " पुनरेवंविधा सामग्री दुर्लभा का मिलिष्यति ? किं करोमि १ " इति विचिन्त्य पुनरपि शिक्यके उपविष्टोऽपि तथैव मनसि शंकामकरोत् । एवं चटति चोत्तरति च । तस्मिन्नैवावसरे कश्चिश्चोरो नृपतेः सौधादलंकारकरंडकमादाय तत्र समाययौ । पदानुसारतः पृष्ठलग्ना राजपुरुषाः समागताः । तत्र चीरं ज्ञात्वा वनं वेष्टयित्वा स्थिताः । उद्यांतदर्शनात् चौरेण स्कन्दिलान्तिके | उद्याने सर्वसमाचाराः पृष्टाः । पृष्टे सति तेन सर्वं सत्यं कथितं । चिन्तितं चौरेण - " गन्धारिको जिनधर्मे स्थिरः श्रावको धार्मिकः | तदाख्यातमलीकं युगान्तेऽपि न संभवेत् " । इति विचार्य तेनोक्तं - " मम त्वं मंत्रं कथय, रत्नकरंडकं गृहाण, यथाहं तव तत्प्रत्ययं जनयामि " । स्कन्दिलोऽपि तदा तस्मै कौतुकेन मंत्रमेकमना यथातथमचीकथत् । सोऽपि चौर: शिक्यकमारुह्य मंत्रमे - कमनाः स्मरन् साहसमवलंब्य चतुरोऽपि पादान् युगपत् चिच्छेद । विद्याधिष्ठायिनी सुरी तुष्टा विमानमढौकयत्। तस्करोऽपि तदारुह्य गगनमंडलं ययौ । तत्र प्रभातसमये आरक्षकनराः सायुधा विलोकयन्ति । स्कन्दिलो दृष्टः । तैरुक्तं- ' अरे गृहीत बघ्नीत । स च चौरो लब्धः ' । इति जल्पन्तस्ते भटाः स्कन्दिलं नृपाग्रेऽढोकयन् । तावच्चौरविद्याधरो महतीं शिलां विकुर्व्य नृपोपरि स्थित्वाऽवोचत् - " मदीयो गुरुः स्कन्दिलः । अस्य यो विरुद्धं करिष्यति तस्योपरि शिलां मोक्ष्ये " । तदाकर्ण्य सर्वेऽपि जनास्त्रस्ता भीताश्च । नृपः ससंभ्रमं भीत इत्यवक्- ' खेचराधीश कथ्यतां, कथं तत्रायं गुरुः ? ' । तदा चौरेण वृत्तान्तः कथितः । सर्वेऽपि विस्मयं प्राप्ताः । नृपस्तदा स्कन्धिलं स्वगृहं प्राहिणोत् । यथा शंकया स्कन्दिलस्य विद्यासिद्धर्न जाता तथा सम्यक्त्वमपि
Jain Education International
For Personal & Private Use Only
चरित्र ललितांग
नृपकथा.
॥ १६ ॥
www.jainelibrary.org