________________
४ शंका कांक्षा विचिकित्सा मिथ्यादृष्टिप्रशंसनम् । तस्य संस्तवश्च पञ्च सम्यक्त्वं दूषयन्त्यमी ॥१॥
तस्माच्छंकादिचौरेभ्यः सम्यक्त्वं रक्षणीयम् । अन्योऽपि मंत्रः शंकया न सिध्यति । तत्र दृष्टान्तो यथा-वसन्तपुरे नगरे गन्धा रश्रावको वसति । स देवपूजादयादानदाक्षिण्यादिभियुतः। सोऽनुदिनं दूरगोद्यानवनमधे जिनेन्द्रभवने सोपस्करं जिनपूजनार्थ याति । तत्र जिनेश्वरं प्रपूज्य निरन्तरमेकमना भावना भावयति । अन्येार्जिनं स्नपयित्वा सुगन्धकुसुमादिभिः समभ्यर्च्य रोमाश्चिातनुः
स्तवनरुत्तमः स्तौति । तदा चैको विद्याधरो महाजैनः परमश्रावकस्तत्र जिनान्नमस्कतुं समागात् । तत्र तं दृष्ट्वा जिनस्तवनं श्रुत्वा साकानन्दः सहर्ष साञ्जसं निकटीभूय गन्धारश्रावकमब्रवीत्-" अहो धार्मिक वामहं वन्दे । अब मम नेत्रकर्णयोः पारण
जने । वद, यत्तव रोचते, तदहं ददामि । अदृश्यकरणकुब्जरूपपरकायप्रवेशाद्या भूरिशो विद्याः सन्ति परं च ४ * भृतले आकाशगामिनी विद्या दुर्लभाऽस्ति । तदिमां विद्यां गृहाण । त्वं योग्योऽसि । मे प्रियं कुरु" । गन्धारः प्राह
'भो भद्र किं मे विद्याप्रयोजनं । एका मे धर्मविद्याऽस्तु' खेचरोऽप्याह-" जानामि, त्वं संतोषवानसि । तथापि तव सार्मिकत्वाद्विद्यामर्पयामि । अहं कृतार्थों भवामि" । श्रेष्ठिनाऽङ्गीकृतं तद्वचनं । खेचरोऽपि तस्मै विधियुत मंत्रं ददौ । तौ स्वावस्थानं जग्मतुः । | परोपकारी गन्धारः सुखेन कालं निनाय | कियत्यपि गते कालेऽचिन्तयत्-'मम मंत्रोऽरण्यजातीव वृथा मा भृत् । इति विचिन्त्य म्कन्दिलमित्रायात्मीयमंत्रं विधियुतं प्रदत्तवान् । सोऽपि स्कन्दिलः विद्यां साधयितुं सोपस्करः कृष्णचतुर्दश्यां निशि श्मशानासन्नोद्याने ययौ । बलिविधानादिकं विधायैकस्य तरोरधः प्रज्वलत्खदिराङ्गारपूरितं कुंडमातनोत् । तस्य तरोः शाखामारुह्य शिक्यकं बद्धं अधो वहिकुण्डम् । तत्र शिक्षके तरुशाखामारुह्य निषण्णः । तत्राष्टोत्तरशतवारान् मंत्रमक्षतं जपित्वा क्षुरिकया यावत् रज्जुपादमेकं
in Education International
For Personal & Private Use Only
www.jainelibrary.org