________________
२
चरित्र ललितांग नृपकथा.
महाव्रतधरा धीरा भैक्षमात्रोपजीविनः । सामायिकस्था धर्मोपदेशका गुरवो मताः ॥ ८॥ | दुर्गतिप्रपतत्प्राणिधारणाद्धर्म उच्यते । संयमादिदशविधः सर्वज्ञोक्तो विमुक्तये ॥९॥ ॥ धर्मतत्त्वमिदं ज्ञेयं भुवनत्रयसंमतम् । यद्दया सर्वभूतेषु त्रसेषु स्थावरेषु च ॥ १० ॥
इति तत्वं त्रयीरूपं शमप्रमुखलक्षणैः । लक्षितं पञ्चभिर्धर्मस्थैर्याद्यैर्भूषितं पुनः ॥ ११॥
स्थैर्य प्रभावना भक्तिः कौशलं जिनशासने । तीर्थसेवा च पञ्चास्य भूषणानि प्रचक्षते ॥ १२ ॥ 2 तां देशनां निशम्य ललितांगनृपो जगौ-" भगवन्नहं प्रवज्यां गृहीतुमशक्तस्तस्मान्मम देशविरतिमङ्गीकारयतु" । गुरुणोचे
'प्रथमं सम्यक्त्वमङ्गीकुरु' । तदानीं ललितांगनृपः सम्यक्त्वमंगीचकार । गुरुणाऽवादि-महानुभाव मिथ्यात्वं वर्जनीयमेव । | तथा च
___ अदेवे देवबुद्धिर्या गुरुधीरगुरौ च या । अधर्मे धर्मबुद्धिश्च मिथ्यात्वं च तदुच्यते ॥ १ ॥
अतीचाराः पञ्च त्याज्याः । तथाहिसंका कंख विगिच्छा पसंस तह संथवो कुलिंगीसु । सम्मत्तस्सइयारे पडिक्कमे देसियं सव्वं ॥१॥
२२**%
तथा च
In Education remation
For Personal Private Use Only