SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ | नन्दं गुरोः पादवन्दनाय सान्तःपुरपरीवारो ययौ । पञ्चाभिगमपूर्वकं तं नेत्रानन्ददं त्रिःप्रदक्षिणीकृत्य भूालन्यस्तमस्तकः प्रणम्य विधिना शुद्धभावेन पुरतो भक्त्या प्राञ्जलिं बद्ध्वा समुपाविशत् । पौरा अपि ज्ञानातिशयभासु मुनिभिः संसेवितपदांबुजं मुनीश्वरं | प्रणम्य यथास्थानमुपाविशन् । मुनिरपि धर्मलाभाशिषं कल्याणकारिणीं दत्त्वा धर्मदेशनां प्रारब्धवान् । तथाहि “यः प्राप्य दुष्प्रापमिदं नरत्वं धर्म न यत्नेन करोति मूढः । क्लेशप्रबन्धेन स लब्धमब्धौ चिन्तामणिं पातयति प्रमादात् ॥१॥ केचित्प्रवालमिव रागभृतः स्वयं स्युः केचिच्च चूर्णकणवत्परिरंगयोग्याः । काश्मीरजातमिव सौरभपूरगौरा धन्याः पुनः स्वपुररंगिततां भजन्ते ॥ २ ॥ मानुष्यमार्यदेशश्च जातिः सर्वाक्षपाटवम् । आयुश्च प्राप्यते तत्र कथञ्चित्कर्मलाघवात् ॥ ३॥ आस्वादिते पुनस्तस्मिन् अक्षयं सुखभिच्छभिः । धारणीयं हृदि ज्ञात्वा सम्यक् सम्यक्त्वमच्युतम् ॥४॥ या देवे देवताबुद्धिमुरौ च गुरुतामतिः । धर्मे च धर्मधीः शुद्धा सम्यक्त्वमिदमुच्यते ।। ५ ।। सर्वज्ञो जितरागादिदोषस्त्रैलोक्यपूजितः । संसारतारको देवो वीतरागः स देवता ॥ ५॥ .. स्वपरोत्तारणे काष्ठयानतुल्यो भवांबुधौ । संविज्ञः स्याद् गुरु/रः सदा सदुपदेशभाक् ।। ७ ।। in Education international For Personal & Private Use Only www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy