________________
यत्रापि तत्रापि गता भवन्ति हंसा महीमंडलमंडनाय ।
.हानिस्तु तेषां हि सरोवराणां येषां मरालैः सह विप्रयोगः ।। १॥ पिता तु पुत्रस्य शिक्षा ददाति । शिक्षया पुत्रो गौरवं प्राप्नोति । यतःपितृभिस्ताडितः पुत्रः शिष्यस्तु गुरुशिक्षितः । घनाहतं सुवर्णं च जायते जनमंडनम् ॥ १॥
अथ चोपालंभविना ईदृक् स्वपुत्रमाहात्म्यं कथमज्ञास्यत? । हे वत्स अद्यापि भाग्यानि जाग्रति, यतस्त्वय्यागते ममानभ्रवृष्टिः समजनि । अथ किंबहुना ? त्वं योग्योऽसि । इदं राज्यमिदं गेहमयं परिजन इदं सर्वमंगीकुरुष्व । प्रजां पालय अहं पूर्वजाचीणं व्रतं गुरुसमीपे समाश्रये " । ललितांगोऽपि तद्वचः पितुर्विरहसूचितं निशम्य सदैन्यमवदत्-" तातैतावन्ति * दिनानि मम विफलान्यगुः, यन्मया पूज्यपादानां सेवा नो विहिता । विभो पुन समादेश्यं । तेन राज्येन किं ? किं तेन जीवितेन ? यतः। प्रसन्नं पितृपादांबुजद्वयं प्रतिदिनं नेक्ष्यते । या शोभा पितुः पुरःस्थायिनो भवेत् सा शोभा उच्चैः सिंहासनस्थस्य सहस्रांशापि नो8 भवेत । अहं पूज्यानां सेवाहेबाकी । पूज्याः सिंहासनस्थाः साम्राज्यं पालयन्तु । अहं तु सेवां करिष्ये । पुनरपि पूज्यचरणांबुजविरहो मा भृत्" इति पुत्रवचो निशम्य भृपतिः किंकृत्यतामूढो जातः । पुनर्नृपतिधीरतामवष्टभ्य जगाद-"वत्स मम त्वं प्रतिबन्धं
मा विधहि । इदं क्रमायातं द्वयं तव राज्यं मम व्रतं चैव" । इति संबोध्य विलक्षवदनं सुतं तत्कालमुच्छलत्पंचशद्धनिर्घोषपूर्वकं सिंमहासने निवेश्य राज्याभिषेकं कारयामास । राज्ये निवेश्य स पुत्रमिति शिक्षयामास–'वत्स तथा वर्तितव्यं यथा मम प्रजा न स
in Educat
i on
For Personal & Private Use Only
www.jainelibrary.org