________________
जात्यादिकं स्वकीयं कथयतु' । कुमार. ऊचे-“भो भो अमात्य मम दोर्दडपराक्रमो जात्यादिक कथयिष्यति । मम पराक्रम विलोकयतु पूर्व, पश्चात्सर्व ज्ञास्यते । तच्छ्रुत्वा पुनः प्रधानः प्रोक्तवान्-"स्वामिस्त्वं गुणवान् पराक्रमेण ज्ञायसे । तव जात्यादिकं पापिना सजनेन विरुद्धं कथितं । अथ राज्ञा प्रणयपूर्वकं त्वमुक्तः कुलादिकं स्वस्य कथयेति । अतस्तव पादयोलगित्वा मया तव कुलादिकं पृच्छयते, कथय" । तदा कुमारः स्वकीयं कुलजनकादिकं सर्व यथातथमचीकथत् । तनिशम्य प्रधानो राजे शशंस । राजापि जहर्ष । तथापि श्रीवासनगरे दुतेन सह लेखं नरवाहननरेशाय प्राहिणोत् । दुतस्तत्र गत्वा लेखमार्पयत् । वदनेनापि तत्स्वरूपं न्यवेदयत् । नरवाहनो नृपस्तद्वचसा प्रत्युञ्जीवित इवाभृत् । हर्षेण चैवं जगाद-" अहो संप्रति मम जितशत्रुनृपसमो न बन्धुः । येन मयाऽतित्यागभवात्तिरस्कारादपमानितः स्वं राज्यं मुक्त्वा देशान्तरं भ्रमन् ललितांगः स्वात्मासन्निधौ स्थापितः पोषितश्च । अथ मदचसा सन्मान्य महादरादत्र प्रेष्यताम्" । इत्युक्त्वा स्वप्रधाननरान् विशिष्टप्राभृतान्वितान् प्रेषीत् । ते प्रधाननराः सर्व यथातथं न्यवेदयन् । तच्छ्रत्वा जितशत्रुर्महिपतिर्दृद्यचिन्तयत् –'हा मया किं कृतं अज्ञानवशतः। ततः पुत्रिकामाकार्याङ्कमारोप्य गलदश्रुजलाट्रेनेत्रः सगद्गदमिति जगाद-"वत्से सभर्तृका त्वं चिरं जीव । मया पापिनाऽसमञ्जसं कृतं तत्क्षन्तव्यं । परिपूर्णमनोरथा भव"। | अथ कुमारेन्द्रमाहूय जितशत्रुनृपतिः सलजवदनोऽवदत्-“भोः सत्यशौण्ड कुमार दुर्जनसज्जनवचसा मया विरुद्धमिदमारेभे । परं तवैव महद्भाग्यं । यत्तेन पापिनाऽलीकं मालिन्यमाहितं तत्तस्यैव फलितं । अतः कारणाद्वत्स कुसंगं मा कृथाः । किं च शृणु-मदीयराज्यस्यार्ध स्वगुणैरेवार्जितं । शेषमधमपि मया तव दत्तं । त्वं गृहाण" । इति संबोध्य भूपालस्तमनिच्छन्तमपि स्वयं निजसिंहास
**
*
.
in Education International
For Personal & Private Use Only