________________
ततो नृपतिर्जगाद-'मोः सार्थेश विश्रब्धो भव, ज्ञास्यते क्रमेण सर्वमपि । इति घीरयित्वा सन्मान्य भूपतिना विसर्जितः। अथ नृपः प्रभातकृत्यानि कृत्वाऽऽस्थानसभायामुपविष्टः । तदा पूत्कुर्वन् पूर्जनः समागात् । नृपेण पृष्टं, तदा चौर्योदन्तं व्यजिज्ञपत | पुनर्भुपेन पृष्टं-'अहो कियत्संख्यं द्रव्यं गतं ?' । पौरैरुक्तं-'प्रभो पञ्चविंशतिस्वर्णसहस्रा गताः' । तनिशम्य राजा स्वभांडागारात्तत्प्रमाणं द्रव्यं प्रदाप्य पौरजनं विससर्ज । तलारक्षं क्षणं निर्भय॑ श्रीगुप्तमाह्वयत् । तमधिक्षिप्य राज्ञोक्तं'भो निशि यन्मुषितं द्रव्यं तत्समर्पय'। तदा तेन श्रीगुप्तेन नतेनोक्तं-'प्रभोऽस्माकं कुले न कदाप्येवं कुकर्म विधीयते'। नृपः कुपितः प्राह-' चेत्त्वया मुषितं नास्ति, तदा त्वं दिव्यं करिष्यसि ?' । तेनोक्तं एवं भवतु, अहं दिव्यं करिष्यामि । तदा नपो बगौ लोहगोलकमक्षिपत् । तप्तं कृत्वा चोक्तं-'भो लोहगोलकं कर्पयित्वा तव करे स्थापय' । ततः श्रीगुप्तो दिव्याग्निस्तंभकर सिद्धमंत्रं पुरा लब्धमस्मरत् । तस्यानुभावतः स वहिना स्वल्पमपि न दग्धः । शुद्धो जातः । शुद्धतालाश्च पतिताः । महताडं-16 बरेण स गृहे जगाम । नृपः कृष्णमुखोऽजनि । नृपो मनसि दध्यो-'अयं तु शुद्धः, अस्य मया कूटमालं दत्तं । अथ मम जीवि- * तेन किं ?'। इति मर्तुमना भूपः सर्वान्मंत्रिणः समाकार्य समादिशत्--'भोः प्रधानाः श्रूयतां, श्रीगुप्तो दिव्यतः शुद्धः । अहं तु शिरसि स्थित्वा महानलीको जातः । अतः कारणात्स्वयमेवाहमात्मनि चौरदंडं करिष्ये । मम राज्येनालं । राज्ये यथोचित कुरुत"ते प्रधाना ऊचुः-"प्रभोऽश्रोतव्यमेतद्वचो वयं किं श्राविताः प्रभृणां कोऽपराधः । यतःपत्रं नैव यदा करीरविटपे दोषो वसन्तस्य किं, नोलूकोऽप्यवलोकते यदि दिवा सूर्यस्य किं दूषणम् ।
HAKAACKRKARICS
For Personal & Private Use Only