________________
चरित्र
55 HRSHA
इत्थं श्रुत्वा पल्लीशः.प्रोचे-" स्वामिन्नहं पापिष्ठः दुष्टः धृष्टः दुराचारी हीनचारी सप्तव्यसनासक्तः जीवघातकः परद्रव्याप-14 हारको लंपटः। मम कथमपि शुद्धिर्भवेत् ?" तदा जगत्प्रभुः श्रीपाश्र्वजिनवरेन्द्रः प्राह-“हे भद्र पापिष्टोऽपि पापानि त्यजति, सुकृतानि करोति तदा शुद्धि प्राप्नोति । अत्र श्रीगुप्तस्य निदर्शनं शृणु
. ॥ अथ श्रीगुप्तकथा ॥ अस्मिन्नेव भरतक्षेत्रे वैजयन्ती पुरी वर्तते । तत्र नलनामा नृपोऽस्ति । स राजा न्यायवान् प्रजापालकः । तस्य महीधरः सार्थवाहः परमप्रेमपात्रं भित्रमस्ति । तस्य सार्थवाहस्य सप्तव्यसनासक्तः श्रीगुप्तनामा पुत्रोऽस्ति । स पुत्रो निशायां चौर्य करोति । अन्यदा सार्थवाहो विषण्णचित्तो निशायां नृपसमीपे समाययौ । स भूपेनालाप्य सगौरवं सादरं पृष्टः–'कथं त्वमीदृशो विषप्णवदनो दृश्यसे?। सार्थवाहोऽधो वीक्ष्य निश्वासं मुक्त्वा जगौ-"विभोऽन्यस्मादुत्पन्नं दुःखमाख्यातुं सुखेन शक्यते। परं तु स्वसमुत्थं दुःखमाख्यातुं विगोपितुं च कथं शक्यते ?"। ततो राज्ञा रहस्यवृत्त्या पृष्टं-'तव किं दुःखं ? सत्यं कथय' । सार्थवाहो जगाद-"प्रभो ममैक एव पुत्रः। स तु द्यूतादिव्यसनसेवी । पूर्वसंचितो ममार्थः क्षपितः । मया वारितोपि कुसंगान निवर्तते । चौर्यमपि करोति । अन्यायं बहु करोति मया बहु वारितोऽपि नोपशाम्यति । अहं किं करोमि ? कस्याग्रे कथयासि । द्यूतकारगृहात्कथमपि समुत्थाय सोमश्रेष्ठिगृहे खात्रं दत्वा सर्वस्वमग्रहीत् । तज्ज्ञात्वाऽहमत्रागतः। मेऽपराधिनो गृहसारं सर्वस्वं गृह्यतां । यतः
चौरश्चौरापको मंत्री भेदज्ञः काणकक्रयी । अन्नदः स्थानदश्चैव चौरः सप्तविधः स्मृतः ॥१॥
॥१५८॥
in Education International
For Personal & Private Use Only
www.jainelibrary.org