SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ 95%A दाहज्वरोत्पन्नपीडया मृतः । रौद्रध्यानवशात् षष्ठं नरकं ययौ । वसन्तसेनापि चाग्निं प्रविश्य तत्रैव नरके नारकोऽभूत् । तत उद्धृत्य पुष्करवरद्वीपभरते रोरगेहयोः पुत्रपुत्र्यावजायेतां । तो मिथः परिणीती । ताभ्यामन्यदा साधवो ददृशिरे । ताभ्यां साधवो भक्त्या : परमादरादन्नपानः प्रतिलाभिताः । अपराहे चोपाश्रये गत्वा तन्मुखाद्धर्म भृण्वाते । ततो गृहिधर्म प्रतिपद्य परिपाल्योभावपि मृत्वा पञ्चमे ब्रह्मदेवलोके सुरौ जातौ । ततश्च्युत्वेमी युवामिभ्यसुतौ संजातौ । भो बन्धुदत्त भिल्लभवे यच्चया तिर्यग्वियोगः कृतः, तत्प्रभा वाचया दुःखं प्राप्तं । यानि यानि कर्माणि क्रियन्ते तानि तानि कर्माणि भोग्यकाले प्रकटीभवन्ति । ततो बन्धुदत्तस्य जिनवचनं ५ शृण्वतोऽपीहापोहवशाजातिस्मरणं समजनि । पूर्वभवो दृष्टः, तुष्टः, भगवत्पादौ प्रणम्योवाच-" भगवन् यद्भवद्भिरुक्तं तत्तथैव । । वो दृष्टः । सर्व सत्यमेव । अद्यापि मे भाग्यं जागर्ति यद्भगवतश्चरणारविन्दे वन्दिते । अथ मया किं करणीयं कि स्मरणीयं ?" । श्रीभगवानुवाच । "त्यज दुर्जनसंसर्ग भज साधुसमागमम् । कुरु पुण्यमहोरात्रे स्मर नित्यमनित्यताम् ॥१॥ * न लंघनीयमौचित्यं मान्यः सेव्यश्च सद्गुरुः । प्रवर्तितव्यं दानादौ भावना मानसीह च ॥२॥ निक्षेपः परिहर्तव्यः प्रक्रम्य योगसिद्धये । नित्यमन्तर्मुखैर्भाव्यं भाव्या वैराग्यभावना ॥३॥ कार्यो मंगलजापश्च गर्हणीयं स्वदुष्कृतम् । चतुःशरणमाराध्यं कार्य पुण्यानुमोदनम् ॥४॥ यतितव्यं परे ज्ञाने विचिन्त्य सन्निदर्शनम् । श्रोतव्यं धर्मशास्त्रं च संसारासारसारता ॥५॥ RABHASHA in Education Interations For Personal & Private Use Only www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy