SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ दत्तो न प्राप्तः । एकदा पल्लीन स्वकुलदेवताग्रे प्रोक्तं--" मातर्यदि मासमध्ये प्रियदर्शनापतिबन्धुदत्तो मिलिष्यति, तदाऽहं तव | दशभिनरेबलिं दास्ये" । क्षेमेण पञ्चविंशतिर्दिना व्यतिक्रान्ताः । बन्धुदत्तो न प्राप्तः । तथापि बलियोग्यान्नरानानेतुं भृत्यान् दिशो दिशं पल्लीपतिः प्रेषीत् । इतश्च बन्धुदत्तोऽपि प्रियाविरहाद् दुःखसंततः सर्वत्र भ्रमन् हितालपर्वतवने प्राप्तः । तत्रैकः सप्तच्छददुमो महानुच्चस्तरुदृष्टः । तं दृष्ट्वा बन्धुदत्तेन चिन्तितं-" मां विना प्रियदर्शना क्षणमात्रमपि न जीवेत् । मृदा भविष्यति । मम जीवितेन किं ? तदहमपि प्रिये"। इति निश्चित्य तस्मिन् द्रुमे यावद्गलपाशः क्षिपति तावत्सरस्तीरे हंसीवियोगिनं हंसं ददर्श। स हंसः सर्वत्र भ्रमन् पद्मच्छायानिलीनां हंसी ददर्श । तया मिलित्वा स सुखी जातः । तत्कौतुकं दृष्ट्वा बन्धुदत्तोऽचिन्तयत्मा"जीवतां नृणां संयोगो भवतीति मृत्युना किं ? पुनरपि विलोकयामि । निःस्वोऽहं स्वपुरी कथं यामि ? । विशालायां पुर्या मम हैमातुलोऽस्ति, तस्माद् द्रव्यं गृहीत्वाऽहं निजां प्राणप्रियां शोधयित्वा मोचयामि । पश्चादहं स्वगृहाद् द्रव्यं दास्ये" । इति ध्यात्वा द्वितीये इति विशालां पूरी प्रति चलितः । तावन्मार्गे गिरिपुरनगरासन्ने यक्षालये श्रान्तत्वाद्विश्रामार्थ निशायां स्थितः । तावदेकः पथिकोऽपि विश्रामार्थ तत्र रजन्यां स्थितोऽस्ति । बन्धुदत्तेन पथिकः पृष्टः-भोः पान्थ बान्धव त्वं कुतः समागतः ?' तेनोक्तं'अहं विशालायाः पुर्याः समागतः । बन्धुदत्तेनोक्तं तत्र मम मातुलो धनदत्तः श्रेष्ठी वसति, तस्य कुशलमस्ति ?'। पान्थः स्माह-भोः पथिक तब मातुलो धनदनो राज्ञा रक्षितोऽस्ति । गुप्तिगृहे सकुटुंबः स्थापितोऽस्ति । तदा बन्धुदत्तेनो--'कस्मात कारणाद्रक्षिताऽस्ति ? ' । पुनः पथिकेनोक्तं-'ग्रामेशो नसतिरन्येधुरेकस्मिन् वने क्रीडां कृत्वा पञ्चाद्वलन् तव मातुलपुत्रेण व्यग्रत्वान्न ज्ञातः, अतो नोत्थितः । तस्मान्नृपः क्रुध्धः । तव मातुलो धनदत्तः कस्मिन्नपि ग्रामे गतोऽभूत । पुत्रो रक्षितः। पश्चाध्धनदत्तेन ग्रामा SAHARASHARE in Educati o ns For Personal & Private Use Only library.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy