SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ चरित्र ५६॥ हा दागतेन कोटिसंख्यं द्रव्यं दत्वा मोचितः। दंडावशेषधनग्रहणार्थ धनदत्तो निजं भागिनेयं वन्धुदत्त समुद्दिश्य बस्तने दिने गृहादचलत्" । तन्निशम्य बन्धुदत्तोऽचिन्तयत् --"अहो मदीयकर्मणां गतिषिमा । यतः-- इतो न किंचित्परतो न किंचिद्यतो यतो यामि ततो न किंचित् । यदेव कार्य प्रकरोमि किंचिन्न तत्कदा सिध्यति कर्मयोगात् ॥१॥ ___ अथाहं कि करोमि ? क्व गच्छामि ? "। इति विमृश्य मातुलग्रामसंमुखं चलितः । तदा नस्य पथि गच्छतो मातुलो मिलितः। अन्योऽन्यमालिंगनेन सस्नेह मिलितौ । स्वकीयस्वकीयोदन्तं कथितवन्तौ दु:खिना जाता विमटवन्तौ च । तदाऽकस्मादलिनरेक्षिभिः पल्लीशनरैः तौ पथि दृष्टौ । धृत्वा बलिहेतवे नीतौ । अन्येऽप्यष्टौ पुरुषा मागांधृत्वा समानीताः। तदा मासो जातः। पल्लीशेनोक्तं-" अद्य मासैकस्यावधिर्जातः, बन्धुदत्तो न प्राप्तः, परंतु ये नरा देव्या मानिताः सन्ति तेषां बलिदातव्यः " । इति | विमृश्य पल्लीशेनोक्त-'भो भो भृत्यजना नराणां वलिं देव्यग्रे ददत' । तदा प्रियदर्शनां सपुत्रामानाय्य देव्यै प्राणमयत् । तदा से प्रियदर्शना दध्यौ-"हा हा महत्कष्टं । अहं श्रावकले जाता। मदर्थमेते नरा हन्यन्ते । पल्लीशो बारितोऽपि नोपशाम्यति" ततो बन्धुदत्तोऽप्यासन्नमृत्युं ज्ञात्वा परमेष्टिनमस्कारोच्चारमारभत । क्षमति क्षामणां करोति । तदनु श्रीपार्श्वनाथस्य नाम बाढ-4 स्वरेणोच्चरति । श्रीपार्श्वनाथाभिधानप्रसादात् खड्गो न लगति । यथा यथा श्रीपार्श्वनाथनाममंत्रं स्मरति तथा तथा बाढं मुक्तोऽपि खडगघातो न लगति । तस्य मातुलस्यापि भगवतः प्रभावात् खड्गो न लगति । तदा मृत्यैरागत्य पल्लीशस्योक्तं- स्वा ॥१५६॥ JanEd.IIA For Personel Private Use Only
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy