SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ चरित्र ५६॥ हा दागतेन कोटिसंख्यं द्रव्यं दत्वा मोचितः। दंडावशेषधनग्रहणार्थ धनदत्तो निजं भागिनेयं वन्धुदत्त समुद्दिश्य बस्तने दिने गृहादचलत्" । तन्निशम्य बन्धुदत्तोऽचिन्तयत् --"अहो मदीयकर्मणां गतिषिमा । यतः-- इतो न किंचित्परतो न किंचिद्यतो यतो यामि ततो न किंचित् । यदेव कार्य प्रकरोमि किंचिन्न तत्कदा सिध्यति कर्मयोगात् ॥१॥ ___ अथाहं कि करोमि ? क्व गच्छामि ? "। इति विमृश्य मातुलग्रामसंमुखं चलितः । तदा नस्य पथि गच्छतो मातुलो मिलितः। अन्योऽन्यमालिंगनेन सस्नेह मिलितौ । स्वकीयस्वकीयोदन्तं कथितवन्तौ दु:खिना जाता विमटवन्तौ च । तदाऽकस्मादलिनरेक्षिभिः पल्लीशनरैः तौ पथि दृष्टौ । धृत्वा बलिहेतवे नीतौ । अन्येऽप्यष्टौ पुरुषा मागांधृत्वा समानीताः। तदा मासो जातः। पल्लीशेनोक्तं-" अद्य मासैकस्यावधिर्जातः, बन्धुदत्तो न प्राप्तः, परंतु ये नरा देव्या मानिताः सन्ति तेषां बलिदातव्यः " । इति | विमृश्य पल्लीशेनोक्त-'भो भो भृत्यजना नराणां वलिं देव्यग्रे ददत' । तदा प्रियदर्शनां सपुत्रामानाय्य देव्यै प्राणमयत् । तदा से प्रियदर्शना दध्यौ-"हा हा महत्कष्टं । अहं श्रावकले जाता। मदर्थमेते नरा हन्यन्ते । पल्लीशो बारितोऽपि नोपशाम्यति" ततो बन्धुदत्तोऽप्यासन्नमृत्युं ज्ञात्वा परमेष्टिनमस्कारोच्चारमारभत । क्षमति क्षामणां करोति । तदनु श्रीपार्श्वनाथस्य नाम बाढ-4 स्वरेणोच्चरति । श्रीपार्श्वनाथाभिधानप्रसादात् खड्गो न लगति । यथा यथा श्रीपार्श्वनाथनाममंत्रं स्मरति तथा तथा बाढं मुक्तोऽपि खडगघातो न लगति । तस्य मातुलस्यापि भगवतः प्रभावात् खड्गो न लगति । तदा मृत्यैरागत्य पल्लीशस्योक्तं- स्वा ॥१५६॥ JanEd.IIA For Personel Private Use Only
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy