SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ चरित्र तैरुक्तं-'वयं तीर्थवन्दनार्थमत्रागताः'। पुनर्जिनदत्तनोक्तं-'मदुचितं कार्यमादिशत। तैरुक्तं-" वयं खेचराः, बन्धुदत्तो भूचरः, त्वमपि भूचरः, बन्धुदत्तस्य तव पुत्रीं प्रियदर्शनां देहि । अयं महानुभावो धर्मिष्ठश्च" । ततो जिनदत्तो धर्मरञ्जितः स्वपुत्रीं बन्धुदत्तस्य पर्यणाययत् । खेचरा हृष्टाः स्वस्थानं जग्मुः। बन्धुदत्तः सप्रियस्तत्रैवास्थात । तया सह पञ्चन्द्रियविषयसुखानि चुभुजे। धर्मक-18 त्यानि सामायिकप्रतिक्रमणपोपधादीन्यपि करोति।क्रमेण कियता कालेन सा गुर्विणी जाता। तया गुर्विण्या सह बन्धुदत्तः श्वशुरमापृच्छय स्वां पुरी प्रति प्रस्थितः । स्तोकसाथेन सह चलितः । क्रमेण स भीष्माटवीं ययौ । व्यहेणोल्लंघ्यैकस्य सरसस्तीरे समागमत् । तदा ४ा भवितव्यतावशाच्चंडसेनाभिधस्य पल्लीशस्य भिल्ला यमदूता इवाकस्मात्तस्मिन् सार्थेऽपतन् । ते भिल्लाः सार्थस्य सर्वस्वं प्रियदर्शनां च गृहीत्वा गताः । ते दुष्टास्तस्य सार्थस्य सर्वस्वं प्रियदर्शनां च चंडसेनपल्लीशस्यार्पयत् । पल्लीशस्तां सुरूपां दृष्ट्वा हृष्टः सन् चिन्तयामास- अहमेतां मुख्यस्त्रीं करिष्ये' । तेन सा पृष्टा-'भद्रे त्वं कासि ? कस्य सुता ? किं नाम ?'। तयोक्तं-'अहं कौशांब्यां जिनदत्तश्रेष्ठिनः पुत्री प्रियदर्शना'। तन्निशम्य स ऊवे-'अहो एवं चेत्तार्ह त्वं मम भगिनी । त्वं ममोपकारकसुता । शृणु, एकदा चौरैः परिवृतोऽहं सायं कौशांब्या बहिर्मयं पिबन् तलवनिरीक्ष्य धृतः । तदान्ये भिल्लाः पलायांचक्रः । अहमेकाकी राजे समर्पितः । राज्ञ आज्ञयाऽहं वधार्थ नीयमानस्त्वत्पित्रा पौषधान्ते निजं गृहं गच्छता नृपं विज्ञप्य मोचितः । अतः कारणाचं मम भगिनी । वद तवाहं किं करोमि ?" । तेनेत्युक्ते साऽब्रवीत्-“हे वान्धव तव घाटया वियोजितं मे पति बन्धुदत्तं शोधयित्वा समानीय दर्शय" । तदा पल्लीशोऽपि तां भगिनीमिव मत्वा गृहे मुक्त्वा तत्पतिशोधनाय ययौ । स बहु भ्रान्त्वा बन्धुदत्तमसंप्राप्य स्वगृहमागतः । पुनः सर्वत्र भिल्लान् प्रेषयामास । तदा तत्र प्रियदर्शना सुतमसूत । ते भिल्लाः परिभ्रमंति, परं क्वापि स बन्धु ॥१५५॥ Econinleme For Personal Private Use Only
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy