SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ चरित्र तैरुक्तं-'वयं तीर्थवन्दनार्थमत्रागताः'। पुनर्जिनदत्तनोक्तं-'मदुचितं कार्यमादिशत। तैरुक्तं-" वयं खेचराः, बन्धुदत्तो भूचरः, त्वमपि भूचरः, बन्धुदत्तस्य तव पुत्रीं प्रियदर्शनां देहि । अयं महानुभावो धर्मिष्ठश्च" । ततो जिनदत्तो धर्मरञ्जितः स्वपुत्रीं बन्धुदत्तस्य पर्यणाययत् । खेचरा हृष्टाः स्वस्थानं जग्मुः। बन्धुदत्तः सप्रियस्तत्रैवास्थात । तया सह पञ्चन्द्रियविषयसुखानि चुभुजे। धर्मक-18 त्यानि सामायिकप्रतिक्रमणपोपधादीन्यपि करोति।क्रमेण कियता कालेन सा गुर्विणी जाता। तया गुर्विण्या सह बन्धुदत्तः श्वशुरमापृच्छय स्वां पुरी प्रति प्रस्थितः । स्तोकसाथेन सह चलितः । क्रमेण स भीष्माटवीं ययौ । व्यहेणोल्लंघ्यैकस्य सरसस्तीरे समागमत् । तदा ४ा भवितव्यतावशाच्चंडसेनाभिधस्य पल्लीशस्य भिल्ला यमदूता इवाकस्मात्तस्मिन् सार्थेऽपतन् । ते भिल्लाः सार्थस्य सर्वस्वं प्रियदर्शनां च गृहीत्वा गताः । ते दुष्टास्तस्य सार्थस्य सर्वस्वं प्रियदर्शनां च चंडसेनपल्लीशस्यार्पयत् । पल्लीशस्तां सुरूपां दृष्ट्वा हृष्टः सन् चिन्तयामास- अहमेतां मुख्यस्त्रीं करिष्ये' । तेन सा पृष्टा-'भद्रे त्वं कासि ? कस्य सुता ? किं नाम ?'। तयोक्तं-'अहं कौशांब्यां जिनदत्तश्रेष्ठिनः पुत्री प्रियदर्शना'। तन्निशम्य स ऊवे-'अहो एवं चेत्तार्ह त्वं मम भगिनी । त्वं ममोपकारकसुता । शृणु, एकदा चौरैः परिवृतोऽहं सायं कौशांब्या बहिर्मयं पिबन् तलवनिरीक्ष्य धृतः । तदान्ये भिल्लाः पलायांचक्रः । अहमेकाकी राजे समर्पितः । राज्ञ आज्ञयाऽहं वधार्थ नीयमानस्त्वत्पित्रा पौषधान्ते निजं गृहं गच्छता नृपं विज्ञप्य मोचितः । अतः कारणाचं मम भगिनी । वद तवाहं किं करोमि ?" । तेनेत्युक्ते साऽब्रवीत्-“हे वान्धव तव घाटया वियोजितं मे पति बन्धुदत्तं शोधयित्वा समानीय दर्शय" । तदा पल्लीशोऽपि तां भगिनीमिव मत्वा गृहे मुक्त्वा तत्पतिशोधनाय ययौ । स बहु भ्रान्त्वा बन्धुदत्तमसंप्राप्य स्वगृहमागतः । पुनः सर्वत्र भिल्लान् प्रेषयामास । तदा तत्र प्रियदर्शना सुतमसूत । ते भिल्लाः परिभ्रमंति, परं क्वापि स बन्धु ॥१५५॥ Econinleme For Personal Private Use Only
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy