________________
Jain Edu
6
चित्रांगदखेचरो मुनिवन्दनार्थ समेतोऽस्ति । स बन्धुदत्तोपरि साधर्मिकतया प्रीतः । तमामंत्र्य स्वगृहे नीतवान् । तत्र बन्धुदत्तस्य स्नानमज्जनभक्तिभोजनं कारयित्वाऽवदद् -- " त्वं मम धर्मबान्धवः साधर्मिकोसि । तवाकाशगामिनीं विद्यां ददामि कन्यां वा ददामि " । ततो बन्धुदत्तेनोक्तं- ' अहं सामान्यो वणिग् व्यापारी विद्यया किं करोमि ? इत्युक्त्वा तूष्णीं स्थितः । तदा खेचरो दध्यौ - " नूनमेष बन्धुदत्तः कन्यामिच्छति । या सुरूपायुष्मती च कन्या भवति साऽस्मै प्रदातव्या । सा क्वास्ति ? " । तदा तस्य भगिनी सुवर्ण लेखास्ति, तयोक्तं- “ कौशांव्यां नगर्यां मम सखी जिनदत्तश्राद्धस्य पुत्री प्रियदर्शनाभिधा कुमारिका सुरूपा - युष्मती चास्ति । तस्याः पित्रा चतुर्ज्ञानी मुनिः पृष्टः इयं कन्या कीदृशी भविष्यति । ज्ञानिनोक्तं इयं कन्या पाणिग्रहणं कृत्वा सुतं प्रसूय चारित्रं ग्रहीष्यति । तदा मया श्रुतं । तस्मात्सवैतस्य दातव्या " । तदा चित्रांगदविद्याधरो मित्रविद्याधरैः परिवृतो बन्धुदत्तयुतः कौशांन्यां गतः । तत्र श्रीपार्श्वनाथप्रासादं ददर्श । तन्मध्ये प्रविश्यानमद् । श्रीपार्श्वनाथप्रतिमाग्रे बन्धुदत्तः स्तौति । तथाहि
जय त्रिभुवनोत्तंस पार्श्वनाथ जिनेश्वर । सुरासुरनत स्वामिन्नमेयमहिमांबुधे ॥ १ ॥ रोगानलजलव्यालचौर|रिश्वापदापदः । बहिरन्तरपि स्वामिन्न भिये त्वयि वीक्षिते ॥ २ ॥
इत्यादिस्तुतिपाठपरे बन्धुदत्ते सति जिनदत्तः पूजायै तत्रागात् । तत्र खेचरान् बन्धुदत्तसाधर्मिकं च वीक्ष्य जिनदत्तः प्रमोदं प्राप्तः । तानामंत्र्य गृहे नीत्वा बहुस्वागतं कृतवान् । स्नानभोजनादिभिस्ते सत्कृताः । तेन ते पृष्टाः किमर्थमत्र समेताः १ ' ।
emational
For Personal & Private Use Only
www.jainelibrary.org