SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ View x* ताभ्यां तत्फलं समानीयार्पयामि यथा तो सुखिनौ भवतः । तदाहं तयोराज्ञां गृहीत्वा तत्र गत्वा फलं गृहीतवान् । फलं गृहीत्वा मार्गे समागच्छन् श्रान्तः । त्वया च कालधर्मात् रक्षितः । अथ तवैवाहमनृणी भवामि, प्रत्युपकारं च करोमि " । तदा सार्थेशेनोक्तं-'त्वं किं करिष्यसि ? । शुकेनोक्तं- ' सार्थपते इदं सहकारफलं त्वमेव गृहाण' । पुनरपि सार्थपतिरवक्- 'हे शुक त्वं मातापित्रोः किं दास्यसि ? कीरेणोक्तं- " पुनरप्यहं तत्र गत्वा सहकारतरोः सकाशात् फलं गृहीत्वा गमिष्यामि " । इत्युक्त्वा तत्फलं दत्त्वा शुक उड्डीय गतः । साथैशस्तत्फलं गृहीत्वा यत्नेन रक्षति । क्रमाञ्जयपुरं प्राप्तः । साथै पुराद्धहिरखास्थापयत् । मनसीदं विचारयति--" ममैतत्फलभक्षणात कुक्षिभरित्वेन किं ? परं तु तथा कुर्वे यथा विश्वस्योपकृतिर्भवेत् । ततो नृपं ददामि " । इति चित्ते चिन्तयित्वा मुक्ताफलभृतस्थालोपरि चूतफलं मुक्त्वा तदुपायनमादाय भूपधाम्नि जगाम । प्रतीहारनिवेदितथास्थानस्थनृपाग्रे स्थालं मुक्त्वा नृपं प्रणनाम | भूपालस्तदुपायनं सविस्मयं वीक्ष्य सादरं पप्रच्छ - " किमिदं सहकारफलं ? सहकारतरुस्त्वया किं कदापि नो दृष्टः ?” तच्छ्रुत्वा सार्थशोज्वादीन् - 'स्वामिन्नस्य फलस्य प्रभावं शृणु' । इत्युक्त्वा तत्प्रभावं सर्वे सागरः कथयमास । ततः प्रीतो नृपस्तस्य सन्मानं दत्तवान् । नृपस्तस्यात्सुक्यात् दानमोचनं करोति । ततः अहं कथमेकाकी फलं भक्षयामि ! मदीया मजा नीरोगा स्यात्तथा करोमि " एवं विचिन्त्य नृप आरामिकमाकार्य शिक्षां दत्त्वारोपणायाम्रफलमापर्यत् । आरक्षकांच तत्र रक्षार्थं मुमोच । सोऽप्यारामिकः शुभस्थाने तदात्रं रोपयति क्रमेणाङ्कुरमुद्भिन्नं श्रुत्वा नृपतिरुत्सवं चक्रे । पुत्रजन्मवत् कृतार्थमात्मानममन्यत । आरामिकारक्षकांश्च भक्तवस्त्रादिसत्कारेण तोषयामास । पल्लवे पल्लवेऽनिशं तं द्रष्टुं याति । तस्मिन् प्रवर्धमाने चूते राज्ञो मनोरथा अपि हृदि प्रवर्धन्ते स्म । एवं क्रमेण तस्य सर्वाङ्गरम्यस्य मञ्जरी प्रादुर्बभूव । फलैरभितोऽलंचक्रे । नृपः स्वप्रजां मनसा गतरोगजरापदं मनुते । अथैकस्य फलस्योपरि शकुनिकागृही Jain Education International For Personal & Private Use Only %%%%%%%%%% www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy