________________
कथयति-"अहो गृहातु गृहातु कोऽपि एतं वराक कीरं म्रियमाणं जले त्रुडन्तम्" इत्युक्ते सागरेणैकस्तारकं सागरे स्वमक्षिपत् । तत्र गत्वा शुकं धृवा सागरात् सागरस्य चार्पयत् । सागरोऽपि शुकं करे कृत्वा चिरमाश्वासयत् । शुकोऽपि लब्धचैतन्यः सागरं प्रत्यवदत्"उपकारिशिरोमणे सार्थवाह चिरं जय । ते धन्या ये परोपकाररसिकाः । यतः
परोपकाराय सतां विभूतयः परोपकाराय वहन्ति नद्यः। .. परोपकाराय फलन्ति वृक्षाः परोपकाराय भवन्ति मेघाः ॥१॥
विपदि धैर्यमथाभ्युदये क्षमा सदसि वाक्पटुता युधि विक्रमः । __ यशसि चाभिरुचिर्व्यसनं श्रुतौ प्रकृतिसिद्धमिदं हि महात्मनाम् ॥ २॥ केवलं मम प्राणा नो दत्ताः, भोः सार्थनायक मम पित्रोजीर्णान्धयोरपि प्राणा दत्ताः । ममोपकारकारिन् शृणु । उक्तं च--
"क्षेत्रं रक्षति चञ्चा सौधं लोलत्पटी कणान् रक्षा।
___ दन्तात्ततृणं प्राणान् नरेण किं निरुपकारेण ॥ १॥". पुनः शुकेनोक्तं-" मम गुरुणा निगदितं सागरे , हरिमेलाभिधे द्वीपे ईशानकोणके दिव्यानुभावः सहकारोऽस्ति । तस्य फलं यः कोऽपि भुंक्ते तस्य रोगा जरा च न भवन्ति, पुनर्नवत्वं भवति शरीरस्य । तच्छृत्वा मया चिन्तितं-मम पितरावत्यन्तवृद्धी स्तः।
॥११॥
Latin Education international
For Personal & Private Use Only
www.jainelibrary.org