________________
श्र०
४७॥
न वा । अथवा धिगिदं ध्यातं 1 नमस्कारात्सर्वार्थसिद्धिर्भविष्यति” । एवं भृशं चिन्तयति - ' इदमेव मम तत्त्वं प्रमाणं । एवं निर्वाय पर्यन्तसमये तस्य रंकमात्रत्वाद्राज्येच्छा बभूव । एवं चिन्तयति - ' उत्तमकुलेन किं १ नीचकुलेऽपि जातस्य भाग्याधिकं राज्यं ४ प्राप्यते तद्वरं । इति ध्यानपरो मृत्या मुहुर्वीतरागस्तुतिश्लोकं भणित्वा कालं कृत्वा तस्मिन्नैव नगरे राज्ञः पुरोधसः सोमस्य गृहे दासी वर्तते तस्याः कुक्षौ पुत्रत्वेनोदपद्यत । पूर्णसमये तस्याः पुत्रो जातः । नृपसभासीनस्य पुरोधसोऽग्रे केनापि गत्वा तस्य जन्म निवेदितं । तस्मिन् समये तेन लग्नं विलोकितं । स्वस्वामियुतं शुभग्रहावलोकितं शुभग्रहबलोपेतं त्रिग्रहोञ्चं सुन्दरं मुहूर्ते लग्नं विचार्य पुरोहितो विस्मितास्यचमत्कारं प्राप्तः । शिरो धुन्वन् नखछोटनं ददौ । नृपोऽपृच्छत् -- ' कीदृशो लप्रयोगोऽस्ति ? पुरोहितोऽवादीत् - 'राजेन्द्र रहसि कथयिष्ये' । प्रस्तावे कथितं - "स्वामिन्निशम्यतां, मद्गृहे चेटिकायाः पुत्रोऽजनि । सोऽनेन लग्नयोगेन तव राज्यं ग्रहीष्यति” । तन्निशम्य नृपतिर्वज्राहत इव संजातः । शंकाकुलो बभूव । सभालोकं विसृज्यासनः दुत्थाय वासभवने प्रविश्येदं चिन्तितवान् - "आ: किमिदमसंभाव्यं ? मदीये पुत्रे सति मदीयं राज्यं किं वृषलीसुतो ग्रहीष्यति ? । उत्पद्यमानो व्याधिश्छिद्यते तदा वरं । संदीप्ते भवने कूपखननोद्यमः कीदृशः शोभते ?” इति विचार्य नृपचंडाख्यं भृत्यमाकार्येत्यादिदेश -- “ अहो चंड त्वं मत्कार्यकरणसमर्थोऽसि, तस्मात्त्वं शृणु, मत्पुरोधोगृहे दास्याः सुतोऽजनि । तं बालकं गुप्तवृच्या गृहीत्वा पुराद्बहिर्गत्वा हन्यतां” । तेनोक्तं- 'आदेशः प्रमाणं' इत्युक्त्वा गतः । प्रस्तावं विलोक्य संध्यासमये एकाकिनं बालं दृष्ट्वा स गृहीतः । ततः शीघ्रं पुराद्बहिर्गत्वा नातिदूरतो जीर्णशुष्कमहाराममध्ये कूपस्य समीपे सहकारवृक्षस्याधः स्थित्वा चीवरमुसार्य बालमालोकते, तावन्मुखं चन्द्रप्रभासमं पश्यति । सहसा तं वनमप्युद्योतितं दृष्ट्वा चंडोऽपि चिचमुदितोऽचिन्तयत् — “पारवश्यमिदं धिक्, यदेवंविधानां वालानां कठोरं निर्घृणं कर्म क्रियते । एष कोऽपि भाग्या
International
Jain Educati
For Personal & Private Use Only
चरित्र
॥ १४७॥
www.jainelibrary.org