________________
CREATORS
दत्वा संसारदुःखनिर्विष्णः साधुसमीपे निषण्णः । मुनीन्द्रोऽपि तस्मै दयार्द्रमनसा धर्मतत्त्वमादिशत् । परस्यापदि जायमानायां साधवोऽतीव वत्सला भवन्ति । तस्मात्कारणात्साधुस्तस्मै धर्ममुपदिशति । तद्यथा
अहो जीवाः समुद्धा हि भ्रमन्ति भुवनत्रये । धर्माभिज्ञानहीनास्तु लभन्ते नैव किंचन ॥१॥ | बीजमुप्तिं विना न स्यात् यथा सस्यागमो नृणाम् । चिरेणापि तथा धर्म विना नैवेष्टसंपदः ॥२॥
तस्माद्बाल्येऽपि दुःखेऽपि निर्धनत्वेऽपि श्रद्धया । देवदर्शनमात्रेण धर्मः कार्यो निरन्तरम् ॥३॥ का एवं श्रुत्वा स दरिद्रपुरुषः प्रकर्षेण सगद्गदं करौ योजयित्वा मुनिमुवाच-"भगवन् अहमनाथः, अहमशरणः, अहं बन्धु
रहितः । त्वमेव शरणं । अस्मिन् भवेऽहं केनापि सुधामधुरया गिरा न भाषितः । स्वामिनहं सर्वत्रापि आक्रुष्टः । मया निराधारे|णाद्यत्वं यानपात्रसमो लब्धः। प्रसादं कृत्वा मम कथय, को देवः ? तस्य दर्शनेन किं स्यात् ? तस्य किं क्रियते ? स्तोकाक्षरैः धनं कथ्यतां "। मुनिरप्याह-“भो भद्र श्रूपतां, पद्मासनासीनः शान्तमूर्तिर्जिनेश्वरो देवः । तस्य भवने गत्वा भूतलन्यस्तमस्तकेनाञ्जलिं बद्ध्वा प्रणम्यवमुच्यतेजितसंमोह सर्वज्ञ यथावस्थितदेशक । त्रैलोक्यमहित स्वामिन् वीतराग नमोऽस्तु ते ॥१॥
गुरुवाक्यं प्रमाणमिति प्रतिपद्य नगरे चैत्यमध्ये गत्वा जिनं दृष्ट्वाऽमुं नमस्कारं पठति । अन्यत्रापि जिनेन्द्रभवने नम-18 | स्कारमात्रं करोति । यथालन्धेन संतोष पामोति । कदाचिन्मनस्येवं विकल्पमात्रमपि जायते-"नमस्कारमात्रेण मम किं फलं भविता
in E
t
ernational
For Personal & Private Use Only
K
ainelibrary.org