________________
विद्याधरेश्वरः परिवारसहितो निविष्टः । नारीसहस्रमध्यस्था जयसुन्दरी राज्ञी निजपुत्रेण सहिता गुरुभाषितं वर्षति । हेपुराधीशोऽपि हेमप्रभो नृपतिः पौरजनैः सार्धं गुरोः पुरस्तान्निविष्टः । सोऽपि धर्मं शृणोति । अवसरं प्राप्य हेमप्रभनृपतिः केवलिनमप्राक्षीत् - ' भगवन्मम भार्या केनापहृता १' । केवली प्राह - ' राजेन्द्र निजपुत्रेण साऽपहृता ' । राजापि विस्मितः माह"प्रभो ! तस्याः कुतः सुतः १ यस्तस्यास्तनयोऽभूत् स दैवेन हृतः । तस्या द्वितीयसुतो नास्ति । ममायं संशयः संतापं कुरुते" मुनिर्वदति — 'सत्यं, अत्र संदेहं मा कृथाः । नृपोऽवादीत् – 'तर्हि परमार्थो निवेद्यतां' । गुरुणा कुलदेव्यादिसकलो वृत्तान्तः कथितः, तत्रोद्याने ( स पुत्रः) समागतः तावत्सर्वं कथितं । राजा यावत् सभासंमुखं विलोकते तावद् ध्वस्तसंदेहः कुमारस्त/ तमानमत् । नृपः सुतमालिंगति । तत्र नृपो जयसुन्दरी रतिराज्ञी कुमारौ द्वौ च सकलं कुटुंबं मिलित । ततो जयसुन्दरी राज्ञी मुनिं नत्वा पप्रच्छ-'भगवन् केन कर्मणा मम षोडशवर्षपर्यन्तं सुतस्य विरहो जातः ? ' । मुनिराह – “पोडश मुहूर्तानि पूर्व शुकीभवेऽण्डं हृत्वा सपत्नीशुक्या वियोगी दत्तः, तस्येदं फलं । यदल्पमपि यो यस्य सुखं दुःखं वा दत्ते, तत्फलमपरस्मिन् भवे लभते” । इत्थं गुरुवचः श्रुत्वा पश्चात्तापपरा रतिराज्ञी समुत्थाथ जयसुन्दरीपादयोर्विलग्य क्षामयति- 'भगिनि ममापराधं क्षमस्व । अन्योऽन्यं क्षमयति । नृपः |पप्रच्छ - 'पूर्वभवे किं सुकृतं कृतं ? येन सुकृतेन मया राज्यं प्राप्तं । गुरुरुवाच – “पूर्वभवे जिनविवस्याग्रेऽक्षतपुञ्जत्रयं चक्रे तत्पुष्पं देवत्वं राज्यप्राप्तिश्च । फलं तु तृतीयभवे मोक्षप्राप्तिः” । अथ हेमप्रभो नृपतिः रतिपुत्रस्य राज्यं दत्वा कुमारेण जयसुन्दर्या च सहितो व्रतमग्रहीत् । दुस्तपं तपस्तेपे । परिव्रज्यां पालयित्वा पुत्रकलत्राभ्यां सहान्तंऽनशनं कृत्वाऽऽयुःक्षये सप्तमे शुक्रदेवलोके सुराधिपोभृत् । जयसुन्दरी जीवोऽपि महर्द्धिको देवोऽभूत् । कुमारोऽपि देवोऽभूत् । ततश्च्युत्वा मानुष्यं प्राप्य त्रयोऽप्यव्ययं पदं प्रापुः ॥ ॥ इति जिनपूजायामक्षतपूजाफलं
1
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org