SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ चरित्र लमन्ते । विलोकय । इमौ मनुष्यो दिव्यरूपी आवां मनसि कृत्वाऽस्मिन् तीर्थजले पताव, यथा चेपेण मनुष्यत्वं प्राप्नुवः । ईदृशी स्त्री त्वं स्याः, ईदृशो नरोऽहं मवेयं" । वानर्या भणितं-"कान्त अस्य नामापि नो गृह्यते, य इमां स्वां जननी स्वगृहिणीबुद्ध्या हरते । तस्य पापस्य रूपं किं त्वमिच्छसि ?" । वानर्या वचनं श्रुत्वा तावुभौ विस्मिती । कुमारोऽचिन्तयत्-'एषा मम कथं जननी मयाऽपहृता ? परंतु मम मातबुद्धिं जनयति'। रानी च मनसि दध्यो-'कथं ममैव सुतः १ अयं दृष्टोऽपि निजां| गज इव मे मनसि स्नेहं वर्धयति' । कुमारः शंकाकुलो वानरी सादरं पप्रच्छ-'भद्रे यदचस्त्वया भाषितं तत्सत्यं ?' । तयोचे| " सत्यमेवेदं, यदि संदेहो भवति तदाऽस्मिन् वने ज्ञानवान् मुनिरस्ति, तं मुनीश्वरं पृच्छ" । इत्युक्त्वा तावदृश्यीभूती । कुमारो विस्मयं प्राप्तः । वने गत्वा तं मुनि पप्रच्छ—'भगवन् वानर्या यत्प्रोक्तं तत्सत्यं न वा।' मुनिरप्याह-“भो भद्र तत्सर्व सत्यं, | नान्यथा, इदानीमहं कर्मणां क्षयकरणार्थ ध्याने स्थितोऽस्मि । हेमपुरे केवली वर्तते स तव सर्व स्पष्ट कथयिष्यति" । ततो मुनि | नत्वा कुमारो मातृसहितो गृहं गतः । अतिहष्टाभ्यां पितृभ्यां कुमारो विमना दृष्टः । कुमारेण विद्याधरी माता पादयोर्लगित्वा रहः पृष्टा-मातः स्पष्टं ब्रूहि, मम माता का ? पिता च कः ?' । सावदत्-'वत्स नो वेत्सि किं ? तवाहं माता, अयं जनकः'। कुमारोऽवदत्-'अस्त्येवं, किं तु पृच्छामि, मम जन्मदायका पितरौ को ?'। तयोक्तं—'नाहं जानामि, तव पिता सर्व जानाति'। तदा तेन विद्याधरनृपेण पटलीप्रमुखः सकलोऽपि वृत्तान्तः कथितः । परं जनकजननीनाम नोदितं । कुमारेण चिन्तितं" वानर्या यद्वने प्रोक्तं सत्यं, तदेव मुनिनाप्युक्तं । एषा जन्मजननी संभाव्यते । अथ भगवन्तं केवलिनं पृच्छामि । यथा मम संदेहसम्पति" । इति मनसि विचार्य जननीजनकसहितः कुमारो इमपुरे नगरे केवलिनो वन्दनाय यगौ । राम अला केवलिनं नवा ॥१४५॥ SMSSSS an Education internation For Personal & Private Use Only
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy