________________
Jain Educa
इतश्च काञ्चनपुरस्वामी सूरविद्याधराधिपो विमानेनाकाशमार्गे गच्छन् तं दारकं भानुमन्तमिवोद्योतकारकं वीक्ष्य तत्रान्यं बालकं मुक्त्वा स गृहीतः । विमानान्तः सुप्ताया स्त्रियाः समीपे स्थापयित्वा तां मृदुस्वरेण बभाषे - 'हे प्रिये शीघ्रमुत्तिष्ठ, स्वदारकं जातं पश्य' । सा सखेदमब्रवीत् - "स्वामिन् किं त्वं हससि । अहं दुरात्मना दैवेन हसिता यथा वन्ध्या स्त्री कदापि पुत्रं न प्रसूते" । सोपि हसितास्यो वदति - 'स्वं स्वयं विलोकय रत्नसमं सुतं, आवयोः पुत्ररहितयोरेप एव पुत्रः । तं बालकं पुत्रत्वेन प्रतिपद्य स्वपुरे गतः । चन्द्रकलावत्प्रतिवासरं कलाभिर्वर्धते । रतिराइयपि प्रीतचित्ता तं मृतबालकं देव्याः शीर्षे परिभ्रमय्य पुरत आस्फालयत् । ततो गृहे पूर्ण मनोरथा ययौ । जयसुन्दर्याः पुत्रवियोग न कालो याति । एका पूर्णिमावदेका चामावास्यावद्राज्ञी बभूव ।
अथ तस्य बालकस्य मदनांकुर इति नाम निर्ममे । क्रमेण वृद्धिं प्राप्य विविधा विद्याः शिक्षितो यौवनं च प्राप्तः । एकदाकाशगामिन्या विद्यया व्योम्नि व्रजन् सौधवातायनस्थितां जननीमपश्यत् । अथ तद्दर्शनोत्पन्नस्नेहेन मदनांकुरो जननीं विमाने उत्क्षिप्य समारोपयामास । साऽपि तं कुमारं दृष्ट्वा भूयो भूयः स्नेहलया दृशा वीक्षते । तदा जनः पुरीमध्ये ऊर्ध्वबाहुर्जल्पति - 'एषा | नृपस्य भार्या केनापि विद्याधरेण न्हियते । शूरोऽपि नृपः किं करोति ? कुब्जस्योच्चैस्तरोः फले कः पराक्रमः १ स हेमप्रभनृपः सुतस्य मरणेन भार्यापहारेण च महादुखं प्राप्तः ।
इतश्च पूर्वभवशुकीजीव देवेनावधिज्ञानेन तदसमञ्जसं ज्ञात्वा चिन्तितं -- ' अहो मम भ्राता स्वमातरं गृहिणीबुद्धया हरते ' । अथ स्वपुरासन्नसरस्तीरे मदनांकुरः सहकारतरोस्तले यावदास्ते तावद्देवो वानरवानरीरूपं विधाय सहकारवृक्षशाखायामतिष्ठत् । वानरो वानरीं प्रत्यवदत् " हे प्रिये इदं कामदं तीर्थं । अत्र तीर्थजले तिर्यञ्चः पतिता मानुष्यं लभन्ते । मनुष्याश्च देवत्वं
I
national
For Personal & Private Use Only
www.jainelibrary.org