SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ चरित्र झंपामदात् । तदा रक्षस्तुष्टोऽब्रवीत्-'वत्से तव सत्त्वेनाधुना तुष्टः, मनोऽभीष्टं वरं बृहि, तद्ददामि। साऽब्रवीत्-' यद्येवं तर्हि में पार्श्व018 भर्ता चिरकालोत्पन्नरोगपीडारहितस्त्वत्प्रसादाजीवतु' । एवमस्थिति कृत्वा स्वर्णसिंहासने तां न्यस्य राजानं चामृतनाभिषिच्या | राक्षसः स्वस्थानं जगाम । राजलोकः समग्रोऽपि तस्या नृपजीवितदानेन जयजयारवेण स्ताति । सापि रानी नृपान्तिके समागत्य ॥१४४॥ पुष्पाक्षतर्वर्धापयति । तदा नृपेणोक्त-'प्रिये तव सत्त्वेन तुष्टोऽहं, अभीष्टं वरं वृणु' । साह-'स्वामिन् त्वमेव ममाभीष्टो वरः। नृपोऽवक्-'भद्रे त्वयाहं जीवितपण्येन वशीकृतः, तथापि किश्चिद्याचस्व' । ततः मा हसित्वाऽवदत्- यद्यवं तर्हि प्रस्तावेऽहं प्रार्थयिष्यामि । नृपस्य समाधिर्वभूव । अन्यदा तया रतिराज्या कुलदेवता पुत्रार्थे प्रार्थिता-'मातः मम पुत्रं देहि, जयमुन्दाः | पुत्रेण तव बलिं दास्ये' इत्युपयाचितं कृतं । भवितव्यतावशात् द्वयो रायोलक्षणसंपूर्णी पुत्री बभूवतुः । तदा रतिराज्ञी तुष्टा मनसि चिन्तयति-'मम देव्या सुतो दत्तः जयसुन्दर्याः पुत्रेण कथं वलि दास्ये?' । इति विचिन्त्य तया इत्युपायो लब्धः- राज्ञः पार्श्वे वरं मार्गयामि । राज्ञः सकाशाद्राज्यं मदायत्तं कृत्वा सर्व समीहितं करिष्यामि'। इति निश्चित्य तया भूपालाग्रे भणितं-'नाथ प्राक्प्रतिपन्नो वरोऽधुना दीयतां'। नृपेणोक्तं-'देवि यदभीष्टं तव तदेव याचस्त्र' । राज्योक्तं-'यद्येवं तर्हि मम पञ्च वासरान् राज्यं दीयतां' । राजावदत्-'एवमस्तु, मया तुभ्यं राज्यं दत्तं' । ' महाप्रसादः' इत्युक्त्वा सा राज्यं पालयन्ती महो|त्सवं चकार । अथ शुभमुहूर्ते प्रभातसमये रुदन्त्या जयसुन्दर्या बलात् पुत्रमानाय्य स्नपयित्वाऽर्चयित्वा श्रीखंडकुसुमाक्षतैः ॥१४४॥ सह तं बालं पटल्यां न्यस्य दासीमूर्धन्यतिष्ठिपत् । उच्छलत्तर्यनादेन नारीवृन्देन गीतगानेन च समं परीवारयुता देवताभवनं 5 5 5 44 455 45- 5 उद्याने याति। in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy