________________
rafo
३४ ॥
Jain Edub
तित्थयराण पहुत्तं नेहो बलदेववासुदेवाणं । साचक्कीणं वयरं तिन्निवि गुरुआइ गुरुआइ || १ ||
एकदा तयोः पिता शूरसेनो नृप एकस्मिन् ग्रामे कार्यार्थं गतः । तौ गेटिकाकन्दुकक्रीडां कुर्वाणां स्तः । तदाऽपरमाता जया गृहस्योच्चमालके चोपविष्टास्ति । तौ रममाणौ सा पश्यति । इतश्च कन्दुकः समुच्छलन्नपरमातुमाल के पतितः । तया गृहीतः । वयरसेनोऽनुजः तं कन्दुकं याचिंतु जयासमीपे गतः । तदा तया कन्दपवितारं कुमारं दृष्ट्वा तदग्रे कामार्थे हावभावः कृतः । वयरसेनेनोक्तं- 'मातरेतदसमञ्जसं । स बाढं तस्याः पादयोर्निपत्य कन्दुकं गृहीत्वा भ्रातुरग्रे समागत्य मातुर्वचनं यथास्थित कथितवान् । क्रीडां | कृत्वा भोजनाय प्रवृत्तौ । सा जया स्वकीयत्रस्त्रस्य खंड खंडं कृत्वेर्ष्यया मचे सुप्ता । इतश्च नृपः कार्यं कृत्वा स्वग्रामे समागतः । | राज्ञीगृहे समागात् । सा राज्ञी वल्लभत्वेन पृष्टा । साऽवक्- "स्वामिन् तव पुत्राभ्यामहं क्षोभिता । नया स्वशक्त्या शीलं कष्टेन | रक्षितं । मम गात्रं नखैर्वल्लूरित । मदीयांबराणि बलेन स्फाटिनानि विलोकयतु" । राजा तदलीकवाक्यैर्भृशं रुटः । ' एतौ दुष्ट पापिष्टौ घृष्टौ मारयामि' । इति विचिन्त्य चंडमातंगमाकार्य भूपतिरादिदेश -- ' भोः चंड ग्रामवायस्थयोः क्रीडां कुर्वाणयोः पुत्रयोः शीर्ष छित्त्वा समानय ' । मातंगोऽचिन्तयत् – 'बहुगुणशालिनोस्तयोः कुमारयोः पिता कथं कुपितः । अधुना प्रस्तावोचितं ब्रुवे । इति विचार्योवाच – ' देवादेशः प्रमाणमेव ' । ततः स कुमारपार्श्व गत्वा सर्वं कथयामास । ताभ्यां भणितं - ' भो भद्र तातसमीहितं शीघ्रमेव कुरु' । ततः पुनर्निपादेन सगदं तौ प्रार्थितौ - 'युवां मयि प्रसद्य शीघ्रं देशान्तरं वेगेन यातं ' । कुमारावूचतुः —— नृपस्त्वां स हनिष्यति' । पुनश्चांडालेनोक्तं- ' उपायेन स्वं रक्षिष्यामि, युवाभ्यां मा विलंब्यतां । तेनेत्युक्तौ पादचारेणैका
emational
For Personal & Private Use Only
चरित्र
॥१३४॥
jainelibrary.org