________________
शार्श्व०
| ३३॥
नृपोऽस्ति । न्याये राज्यं पालयति । तत्र परमश्रद्धावान् श्रेष्ठाचारविचारवान् अभयंकर श्रेष्ठी वसति । स जिनभक्तः परमश्राद्धः । कुशलमती तस्य प्रियाऽस्ति । साप्यहर्निशं देवपूजादानसामायिकप्रतिक्रमणादीन्यगण्यानि पुण्यानि करोति । तस्य श्रेष्ठिनः कर्मकरौ द्वौ स्तः। तावपि भद्रप्रकृती । एकस्तु गृहकर्माणि करोति । अपरस्तु गाचारयति । अन्यदा तौ मिथो वार्ता चक्राते - " आवयोः स्वामी श्रेष्ठी धन्यः । यस्य प्राचीनसुकृतादिदानीं सुखसमृद्धिः, भाविभवे त्वैहिकपुण्यप्रभावात्सुगतिर्भविष्यति । आवां तु दरिद्रौ अकृतपुण्यकौ । नचेहलोकसुखं न च परकोकसुखं । यतः
अदत्तभावाच्च भवेद्दरिद्रं, दरिद्रभावात्प्रकरोति पापम् । पापप्रभावान्नरके व्रजन्ति, पुनरेव पापी पुनरेव दुःखी ॥ १ ॥
मनुष्यभवं निष्फलं निर्गमयावः " । इति चिन्तयन्तौ तौ ज्ञात्वा श्रेष्ठिना चिन्तितं - ' इमौ धर्मयोग्यौ ' । एकदा चातुर्मासिकदिने श्रेष्ठी तयोर्जगाद - ' अहो युवां जिनेशितुः पूजनाय मत्सार्थे समागच्छतं ' । तौ श्रेष्ठिना सह चैत्ये गतौ । श्रेष्ठी शुद्धभावः पवित्रवस्त्रः श्रीजिनेन्द्रपूजां करोति । तदा श्रेष्ठिना प्रोक्तं- ' युवामपि जिनपूजनं कुरुतम् ' । तदा तावूचतुः – 'यस्य पुष्पाणि तस्यैव फलं भवेत्, अस्माकं वेष्टिरेव ' । तदा श्रेष्ठिनोक्तं- 'युवयोस्तु खल्पमपि किञ्चिदस्ति न वा । तयोर्मध्ये गोपालो जगाद - ' मम वस्त्रांचले पञ्च कपर्दिकाः सन्ति । श्रेष्ठिनोक्तं- ' वत्स त्वं पञ्चकपर्दिकानां पुष्पाणि गृहाण, जिनेन्द्रं भावेन पूजय' । स शुद्धभावेन जिनेन्द्रं पूजयति । द्वितीयेन चिन्तितं --- ' एतस्यैतावन्मात्रमप्यस्ति मम पार्श्वे तु किंचिदपि नास्ति ' । इति
Jain Education International
For Personal & Private Use Only
चरित्र
॥१३३॥
www.jainelibrary.org