________________
I
SISKARI
| करणशिक्षा दत्ता । अयं सकलोऽप्युपायः शुकविलसित एव । पश्चाच्छुकः सभार्यः समित्रो नन्दीश्वरद्वीपे गत्वा शुकरूपं त्यक्त्वा
देवरूपं कृत्वा नन्दीश्वरद्वीपेऽष्टाहिकामहोत्सवं कृत्वा प्रथमदेवलोके स्वकीयामृतसागरनाम्नि विमाने गत्वा सुखभागभृत्" । तदा | कनकश्रेष्ठी गुरूपदिष्टां देशनां श्रुत्वा वैराग्यमापन्नः । केदारनृपोऽपि वैराग्यमापन्नः । द्वावपि दीक्षां जगृहतुः । निरतिचारं चारित्रं प्रतिपालयति । पर्यन्तेऽनशनं विधाय पञ्चमे ब्रह्मदेवलोके दशार्णवायुपौ सुरी जातौ । ततो महविदेहे सत्स्यतः । तत्तीर्थमधुना परशासनैर्गृहीतं । इति बदरीकेदारचरित्रं ॥
भो यो भव्यजना यथा रावणेन जिनपूजया तीर्थकरगोत्रमुपार्जितं तथाऽन्येऽपि जीवाः स्वर्गापर्गपदवीं प्राप्नुवन्ति ।सा पूजा त्रिविधाऽस्ति पुष्पाक्षतस्तोत्ररूपा । तत्रादौ पुष्पपूजा जीवानां विशिष्टफलहेतवे भवति । यतः--
देशाधीशो ग्राममेकं ददाति, ग्रामाधीशो क्षेत्रमेकं ददाति ।
क्षेत्राधीशः सेतिका संप्रदत्ते, सार्वस्तुष्टः स्वं पदं संददाति ॥१॥ पुष्पपूजनया वयरसेनकुमारस्य राज्यपदवी जाता। तथाहि
॥अथ वयरसेनकथा ॥ अस्त्यत्र मरतक्षेत्रे सर्वत्र प्रसिद्धं ऋषभाख्यं पुरं । समृद्ध्या राजितं प्रासादश्रेण्या भाजितमस्ति । तत्र गुणसुन्दरो नाम्ना
JainEducel
For Personal & Private Use Only