________________
***०
पृष्टं - मातम विमानं कथं न चलति ? तदा तयोक्तं - भो नृपात्र नवीनपार्श्वजिनबिंबवन्दनं विना कथं तव विमानं चलति ? ' तदा तच्छ्रुत्वा विमानादुत्तीर्य जिनपूजनवन्दनकृतेऽध उत्तरितः । तदा पवित्रीभूय जिनपूजनं चक्रे । तस्यांगुलिकायां स्वर्णमुद्राऽस्ति । स्पर्शोपलजिनबिंचस्पर्शनात् मुद्रा पोडशवर्णिका जात । तेन विमृष्टं - इयं मुद्रा चतुर्दशवर्णिका षोडशवर्णमया जाता तजिनदलप्रभावः' । एवं विचार्य तां जिनप्रतिमां गृहीत्वा चलितः । तद्द्दष्ट्वा जनाः सर्वे पृष्ठे धाविताः । युद्धमारब्धं । तत्समयेऽकस्मात्मिहलाधीशो राजा रावणः समागतः । मासं यावद्युद्धं कृत्वा रावणेन विद्याधराः सर्वे त्रासिताः । रावणस्तजिनबिंबं लावा लंकायां जगाम । तत्र प्रासादे श्रीपार्श्वजिनभक्ति पूजां नाटकादिकं प्रत्यहं करोति । पञ्चाशद्वर्षाणि जातानि । एकदा रावणः श्रीपार्श्वजिनाग्रे स्वयं नृत्यं करोति । मन्दोदरी गायति नृत्यति च । तत्समये रावणस्य करे वाद्यतंत्री त्रुटिता । रावणेन स्वकरात् मा कर्षिता, तया तंत्री संधिता । भावान्नृत्यं न भग्नं । तत्र जिनपूजाभक्तिप्रभावाद्रावणेन तीर्थकरगोत्रमुपार्जि। जिनभक्तिप्रभावात् पद्मावतीवैराट्याजितवलादिदेव्यां रावणस्य करपीडां निवारयन्ति । तस्यां निशायां प्रतिमाधिष्ठायकेन रावणस्य स्वप्नं दत्तं - 'मां मत्स्थाने मुञ्च । तदा रावणस्य बदरी नाम दासी अस्ति । सा त्वापन्नसत्त्वास्ति । गर्भस्य त्रयोविंशतिवर्षाणि जातानि सन्ति । रावणेन तस्यै प्रोक' एतद्विवं चटकपर्वते मुच ' । सा श्रीजिनबिंबं गृहीत्वा प्रासादे प्रतिमां संस्थाप्य प्रत्यहं जिनभक्तिं करोति । तत्प्रभावात्तस्याः सुतप्रसवोऽभवत् । तस्याभिधानं केदार इति दत्तं । स जन्मवैराग्यवान् जातः । यौवनं प्राप्तः । रावणेन तस्य केदारस्य भाग्योदयाच्चटकपर्वतस्य राज्यं दत्तं । पञ्चविंशतिग्रामाणामधीशो जातः । कनक श्रेष्ठी प्रधानो जातः । बहूनि पुण्यानि करोति । तदा श्रीरामचन्द्रेण रावणो विनाशितः । जिन
'
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org