SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ श्र० १३१॥ सिंहलद्वीपसन्मुखं चलितः । तदा शुकेनोक्तं- ' अथाहं मदीयस्थाने व्रजामि । तदा श्रेष्ठिनोक्तं- “ शुकराज त्वं मम प्राणेभ्योऽपि वल्लभः । त्वया मम बहूपकारः कृतः । त्वं कः १ देवो विद्याधरो वा १ तव स्वरूपं वक्तव्यं । च तत्र स्थानकं ? तत्सत्यं ममाग्रे निवेदय " । तदा शुकेनोक्तं- ' मदीयं स्वरूपं कियता कालेन केवली गुरुः कथयिष्यति' । इत्युक्त्वा शुकः शुकीयुक्तः | स्वकीयं देवरूपं कृत्वा स्वस्थाने देवलोके जगाम । तत्र देवः शाश्वतजिनप्रासादेऽष्टाहिकामहोत्सवं कृत्वा स्वकीये विमाने सुखभागभृत् । श्रेष्ठिनो मार्गे गच्छतः सिंहलद्वीपसंमुखं ऋयाणकमूल्यदर्शनार्थं ये नराः पूर्व प्रेषिता अभूवन् तेभ्येयुः । तैरुक्तं - ' स्वा| मिन् उत्सुकेन समागन्तव्यं क्रयणकविक्रयेण बहुलाभो भविष्यति' । इति श्रुत्वा मुदितः सन् अविच्छिन्नप्रयाणैः सिंहलद्वीपे गत्वा क्रयाणकविक्रयः कृतः । तत्र बहुद्रव्यप्राप्तिर्जाता । श्रेष्ठिनापलखंड प्रभावात्तत्र बहुतरं हाटकं कृतं । पश्चादलितः शतयोजनानन्तरं चटक पर्वतोऽस्ति । तत्र स्थित्वा कनकश्रेष्ठी स्वनाम्ना कनकपुरं नगरं वासयति । तत्र नवीनो दुर्गः कारितः नवीनावासाः | कारिताः । तत्र निवसति । सार्थजनेनाऽपि तत्र निवासके । अन्या अपि पञ्चविंशतिग्रमा वासिताः । श्रेष्ठी तत्र नगरे महोत्तुंगतोरणं चतुरशीति मंडपैरलंकृतं प्रासादं मनोहरं कारयति । तत्र महोत्सवपूर्वकं शुभमुहूर्ते सिद्धियोगे श्रीपार्श्वनाथ बिंबं स्थापयामास । तत्र प्रतिदिनं स्नात्रादिकं कारयति । नाटकं कारयति । इतश्चैकदा वैताढ्यधिरतिर्मणिचूडविद्याधरेश्वरोऽष्टापदतीर्थं शाश्वतजिनयात्राकृते निर्गतः । नन्दीश्वरद्वीपे जिनानमस्कृत्य सिंहलद्वीपे समागतः । तत्रापि जिनमभिनम्य पश्चाद्वलितः । चटकपर्वते तद्ग्रामोपरि विमानेन गच्छतस्तस्य विमानं न चलति । तदा तेन विद्याधरनृपेण चिन्तितं- 'केन हेतुना मदीयं विमानं न चलति ? ' । तदा तेन प्रज्ञप्ती विद्याधिष्ठायिकायाः Jain Education International For Personal & Private Use Only: चरित्र ॥१३१॥ www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy