________________
पितुरग्रे मुक्तं । प्रभावः कथितः । पितुः प्रमोदोजनि । पित्रा रत्नपभावात्सर्वेषां सार्थजनानामशनपानखादिमस्वादिमभोजनीजनं
कारितं वस्त्राणि दत्तानि सर्वेऽपि संतोपिताः। दानं दत्तं कदापि न निष्फलं । यतः&| दारिद्र्यं न तमीक्षते न भजते दौर्भाग्यमालिंगति, नाकीर्तिर्न पराभवोऽभिलपते न व्याधिरास्कन्दति। दैन्यं नाद्रियते दुनोति न दरः क्लिश्यन्ति नैवापदः, पात्रे या वितरत्यनर्थदलनं दानं निदानं श्रियाम् ॥१॥
तेन श्रेष्ठिना बहुद्रव्यव्ययः कृतः । चिन्तामणिरत्नप्रभावात् मनोवांछित कार्य सिध्यति । प्रतिदिनं सार्थजनान् पोपयति । दिनकानन्तरं श्रेष्ठी शुकरराजमपृच्छत्--'भोः कीरराज परोपकाररसिक मम जिनप्रतिमाकरणोपायं कथय' । शुकोऽवोचत-- &"श्रेप्टिन त्वं एकाग्रमनसा शृणु । अस्मिन् गिरा कन्दरासमीपे श्वेतपलाशोऽस्ति । ताकाष्ठं समानीय नररूपं विधाप तत्कंठे।
फलं धार्यतां । तच्छिरसि चिन्तामणिरत्नं स्थाप्यं । तदा स काष्ठनरोऽधिष्ठायकाभावात्प्रतिमां घटिष्यति । अन्यकाष्ठान्यानीय | कामयं ग्रहं कपाटसहितं कारय । तन्मध्ये तं सपाषाणं नय । तत्र प्रतिमा कार्या । पश्चात्काष्ट नरस्य शाल्मलिकतरोः कुसुम फलं (च) देहि । कुसुमफलरसाभ्यां प्रस्तरशिलायाः प्रतिमाया आकारः कार्यः । तस्मिन् प्रस्तरे लोहं न लगति, ततः शाल्मलिकतरुकाष्ठेन प्रतिमा घटितव्या । तस्य वृक्षस्य मञ्जर्या प्रतिमाया ओपो भविष्यति । रहसि स्थाने प्रतिमा कार्या । तस्मिन समये वादिवनिर्घोषादिना नाटकं कार्य । तत्प्रभावेण तव महान् भाग्योदयो भविष्यति" । श्रेष्ठी तच्छुत्वा मुदितः सन् तथैव जिनप्रतिमां कारयामास । स श्रीपार्श्वनानाथबिंब निर्माय पूजाभल्यादिमहोत्सवं चकार । स्नात्रगीतनृत्यादिकं करोति । तत्प्रभावेण धरणेन्द्रपद्मावतीवरोख्यादिदेवास्तस्य श्रेष्ठिनः सान्निध्यं कुर्वन्ति । उपलस्य खंडा यत्नेन स्थापिताः । तां प्रतिमां गृहीत्वा श्रेष्ठी
-
in
due
For Personal & Private Use Only
www.jainelibrary.org