________________
इत्यादि गदितं तस्य वचः श्रुत्वा सदयमानसस्तदिनादारभ्य नृपो नीचसंगानिवृत्तः । अतः कारणात् प्रियतम मया पुनः पुन-16 निवार्यसे । स्त्रीणामएि वचनं सानुकूलं बुधैर्मन्यते । 'वामा वा दुर्गापि मार्गगामिभिः किं न शस्यते ?" | कुमारस्तस्या वाक्यं श्रुत्वा हृदि चमच्चक्रे । तथापि तस्याधमस्य संसर्ग न त्यजति, यथा कर्पूरस्यांगारेण समं रतिः। अथ कियत्यपि गते कालेऽन्यदा वसुधाधीशः प्रच्छन्नमिति सज्जनं पप्रच्छ-"अहो कुमारस्य तव चान्योऽन्यं कथं प्रीतिः ? कुमारस्य को देशः? का जातिः १ का माता ? |
का पिता? त्वं कः ? कुतः समागतः ? " तदा सजनेन चिन्तितं-“कुमारः कदाचिन्मम पूर्वविकारं स्मृत्वाऽशुभं करिष्यति" || माइति विमृश्य नृपस्योक्तम्-"स्वामिन्न प्रष्टव्यमकथितं सुन्दरम्" । तदा नृपः ससंभ्रमं पुनः पृष्टवान् । सज्जनो भूयो भूयः पृष्टोऽपि कि
श्चित् हास्यं चक्रे । नृपः शपथपूर्वकं पृच्छति । सञ्जन उवाच-"स्वामिन् ययातथं शृणु । श्रीवासपुरपत्तने नरवाहनो राजा। तस्य पुत्रोऽहम् । मदीयभृत्योऽयं प्रकृत्या रूपवान् कुतोऽपि सिद्धपुरुषात् विद्यां प्राप्य स्वजातिलज्जया गेहं त्यक्वा देशान्तरं भ्रमन् अत्रायातः। प्राच्यभाग्यवशादत्र संपदोवाप्तवान् । अहं च पितुः पराभवादत्र पर्यटन् आयातः । अनेनाहं दष्ट्वोपलक्षितः । मर्मज्ञोऽयं इति ज्ञात्वा मम महादरं करोति" । राजा सञ्जनोक्तं समाकर्ण्य व्याकुलीभूतो दध्या-" हा हा कीदृशमसमजसं जातम् । अनेन मत्पुत्री | पणबद्धा परिणीता। मत्कुलं मलिनीचके । तदेनं जामातरं पापिनं निग्रहीष्यामि"। इति विमृश्य सुमतिप्रधानमाकार्य सर्वमुक्त्वा | कथयामास-'अस्य निग्रहं कुरु'।
१ वामभागवर्तिनी।
पक्षिणीविशेषः । ३ प्रष्टुं योग्यं न.वर्ततेऽतो सयाऽकथितमेव शोभनमित्यर्थः ।
in Education International
For Personal & Private Use Only
THI
www.jainelibrary.org