________________
भयाकुलोऽत्यन्तं दुःखं प्राप्तः । तं दृष्टा कृपयासन्नस्था हंसी पतिं राजहंसं प्रत्यब्रवीत् -" प्रिय पश्य पुरः काको वराको म्रियते । त्वं | पक्षिगणेषूत्तमो जनैर्गीयसे, तदस्य जीवदानं तीरमुत्तार्य दीयताम् ” । तदा साधु साध्विति भाषित्वा हंसो हंसी च चंच्चाऽऽदाय तृणं तत्र | विलग्नं वायसं बहिर्निन्यतुः । क्षणमेकं विश्रम्य काको बाढं पादयोर्विलग्य हंसं न्यमंत्रयत - " हे हंस तव कोऽपि प्रत्युपकारो मया निष्पाद्यते । मद्वनं समागत्य मम तोषं कुरु" । हंसेन तदाकर्ण्य प्रियामुखं वीक्षितम् । सापि तदाकूतं ज्ञात्वा प्रच्छन्नमिदमब्रवीत्— ' हे प्राणप्रिय न युक्तमिदम् । निर्विचारं नो विधीयते । स्तोकापि नीचसंगतिः कर्तुं न युज्यते । उक्तं च
सहसा विदधीत न क्रियामविवेकः परमापदां पदम् ।
वृते हि विमृश्य कारिणं गुणलुब्धाः स्वयमेव संपदः ॥ १ ॥
इत्यादिना तया वारितोऽपि दाक्षिण्यतः क्षणं यामीति तामुक्त्वा तेन सह वनं गतः । तत्र निवस्य शाखायां उपविष्टावुभावपि । तदासन्नस्थ पुरनृपो वाह्याली क्रीडाश्रान्तः निंबशाखाधः समेतः । तदा वायसो नृपशिरसि विष्टां कृत्वा समुडीनः । हंसस्तत्रैव स्थितः । तदैकेन नरेण धनुर्गोलकेन हतो हंसोऽपतत् । तं भुवि पतितं वीक्ष्य नृपः सपरिच्छदोऽवदत् - 'अहो चित्रं हंसरूपेण वायसो वीक्ष्यते । कंठगतात्मापि हंसस्तं जनालापं निशम्य स्वजा । दूषणनिवारणाय नृपमत्रवीत् । यतः
"नाहं काको महाराज हंसोऽहं विमले जले । नीचसंगप्रसंगेन मृत्युरेव न संशयः ॥ १ ॥ "
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org