________________
रावे.
चरि०
। ८॥
ॐ
गता ? ' । तदा सज्जनोऽब्रवीत-"स्वामिन् श्रूयतां त्वां तादृशं वटस्याधो विमुच्य मार्गे गच्छतो मम तस्करैर्यष्टिमुष्टिभिराहत्य सर्व गृहीतम् । तैरहं दुष्कर्मफलभोगार्थ जीवन्मुक्तः । नाथ साक्षान्मया स्वस्यैव पाप्मना फलं दृष्टम् । त्वयापि साक्षात्सुकृतस्यैव फलं दृष्टम् । अतः कारणाद्धर्मादेव ध्रुवं जयः । अथ स्वामिन् मामदृश्यमुखं दरेण विसर्जय" । कुमार आह-"भो मित्र विकल्पं हृदि मा कृथाः । तव साहाय्येन ममेदं सर्व विजूंभितम् । नो चेत् कथं ममात्रागमनं कन्याराज्यलाभादिकं च भवेत् ? अतस्तवैवोपकारः। अथात्र मदीये राज्येऽखिलकृत्यकृत् भव । प्रधानपदवीमेत्य मां गतचिन्तं विधेहि" । तदा सज्जनस्तत्रस्थः सुखं भुनक्ति । अन्येद्युः राजपुव्या प्रकृतिदक्षया तस्य दौरात्म्यं विदित्वा नृपात्मजोऽभाणि-"कुलस्त्रीणां भर्तुः शिक्षापदानं न युक्तम् । तथापि तव मुग्धत्वात् किश्चिदुपदिश्यते । हे स्वामिन् एतस्य संगतिस्तव न शोभना । चेत्तवैतस्योपरि स्नेहरागोऽस्ति तदा द्रविणं देशो वा दीयताम् । परं पाणेशानेन सह संगतिस्तव न शोभना । सर्पस्य पयःपानं केलं विपवर्धनाय भवति । तेजोमयोऽपि वनिलोहेन सह मिलितो धनताडनां सहते । उक्तं च
संतप्तायसि संस्थितस्य पयसो नामापि न ज्ञायते मुक्ताकारतया तदेव नलिनीपत्रस्थितं राजते। स्वातौ सागरशुक्तिसंपुटगतं तज्जायते मौक्तिकं प्रायेणाधममध्यमोत्तमगुणः संवासतो जायते ॥१॥ ____ अतः कारणानीचानां संगतिः सुखाय सतां न स्यात् । नीतिशास्त्रेऽप्युक्तं-हंसश्च नीचकाकसंसर्गदोपतो मृत्युमवापेति । तथाहि* यथैकस्मिन् वनमध्ये सरसि वायसस्तरीतुमजानतु बकस्पर्धया व्योममंडलान्मीनं जिघृक्षुः प्रविष्टः । स तरीतुमशक्तः शेवालैवेष्टितो मृत्यु-18
%
%
॥८
॥
%
en Education International
For Personal & Private Use Only