SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ धममैक्षत । कीदृशं ? गलन्नेत्रास्य बीभत्सं दुर्निवारक्षुधया करालवदनोदरं मलीमसतनुं व्रणपट्टेदूषितगात्रं जंगमपापराशिमिव दुश्चेष्टितं, | ईदृशं तं भृत्याधमं निरीक्ष्य सम्यगुपलक्ष्य करुणार्द्र मनसा कुमारश्चिन्तयति – “अहो अस्य वराकस्येदृशी कीदृशी दशा समजनि ? । उक्तं च कर्मायत्तं फलं पुसां बुद्धिः कर्मानुसारिणी । तथापि सुधिया भाव्यं सुविचार्यैव कुर्वता ॥ १ ॥ धिग्दैवम् " । इति चिन्तयन् चैटैस्तमाकार्य कुमार इदमभ्यधात् - ' अहो जानासि मां ब्रूहि ' । सोऽपि कंपितांगः सज्जनो भवेन गलन्नेत्र इत्थमवोचत् - ' स्वामिन् पूर्वाचलोत्तुंगशृंगस्थं रविं को न वेत्ति ? ' । कुमारोऽवादीत् - ' संभ्रमवाक्येनालं सत्यमाख्याहि ' । पुनः सोऽप्याह - ' तर्हि देव सत्यं न वेद्मि ' । ललितांगोऽब्रवीत् - " यस्य चक्षुरुत्पाटने उपक्रमस्त्वयोपचक्रे भोः सजन तं मां कथं नो वेत्सि ? " । तच्छ्रुत्वा सहसा लज्जाभयाशंकाभराक्रान्तोऽधोमुखः स संस्थितः । अथ कुमारस्त्याजित दुर्वेषं तं स्नानभोजनं कारयित्वा सत्राणि परिधाप्येत्थमभाषत - " भोः सज्जन तेन द्रव्येण किं ? येनात्मीयसञ्जनमनुष्याणां संविभागो न विधीयते ? । अद्य मे सफलं राज्यं । मम तवानुभावाद्धर्ममाहात्म्यं जातम् । त्वं मम मार्गसखा । अतः कारणान्निश्चितमानसः सौख्यं भुंक्ष्व " । | अथ स भृत्याधमः सविस्मयम्ना इति हृदि दध्यौ - “ अहो ! अस्य कुमारस्य निष्कारणकारुण्यम् । यतः— संपदि यस्य न हर्षो विपदि विषादो रणे च धीरत्वम् । तं भुवनत्रयतिलकं जनयति जननी सुतं विरलम् |१| ततः स तत्रैव सुखेन स्थितः । अथान्यदा कुमारेण सुहृद्गोष्ट्या स पृष्टः- भोः सज्जन तत्रैव तव तादृशी दुर्दशा कथं समा Jain Education International For Personal & Private Use Only *%% % % %% www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy