________________
चरि०
७॥
RAA
-CONCARELAMMARCANAKAMAL
हे कन्यकोत्तसे अनेन पुरुषोत्तमेन त्वं स्वगुणैरेव स्वायत्तीकृता । त्वयाप्यस्मै स्वयमेवात्मा स्फुटं समर्पितः । अहं तु निमित्तमा । मस्मि । त्वं सभर्तृका चिरं जीव, सुखं भुक्ष्व" । तदा नृपः शुभलग्ने तयोश्चित्तवित्तानुमानेन सर्वसामग्रीपूर्वकं पाणिग्रहणमहोत्सवभकारयत् ! कुमाराय महासाचं मनोहरं ददौ । देशकोशादिसप्तांगराज्यस्याध सर्व विभज्य नृपः कुमाराय समार्पयत् । सोऽपि पुण्यप्रभावात् पुष्पावत्या समं सत्र काव्यकथारसंधर्मशास्त्रविनोदैश्च दोगुंदकामर इव सुखं भुनक्ति । पुण्यैः सर्व समीहितं भवति । यतः
रे चित्तं खेदमुपयासि किमत्र चित्रं रम्येषु वस्तुषु मनोहरतां गतेषु । पुण्यं कुरुष्व यदि तेषु तवास्ति वाञ्छा पुण्यं विना न हि भवन्ति समीहितार्थाः ॥ १ ॥
दुर्वारा वारणेन्द्रा जितपवनजवा वाजिन स्यन्दनौघा, लीलावत्या युवत्यः प्रचलितचमरैर्भूषिता राज्यलक्ष्मीः। उच्चैः श्वेतातपत्रं चतुरुदधितटीसंकुला मेदिनीयं,
प्राप्यन्ते यत्प्रभावात्रिभुवनविजयी सोऽस्तु पुण्यप्रभावः ॥ २॥ स कुमारः पुण्यप्रभावाविर्भूतप्रभृतसुखेन वासरान्निरवाहयत् । अन्येयुः कुमारो वातायनस्थितः पुरमालोकयन्नकस्मात्तं भृत्या
%252ऊर
in Education International
For Personal & Private Use Only
www.jainelibrary.org