________________
वि०
१२८॥
RSS
दौ मुतौ समेतौ किरयुग्मं पश्यतः । दुर्विनीतेनीतं--'अनेन बाणेनाहत्य कीरं पातयामि, अथवा पाशेन गृहीत्वा क्रीडाथै पञ्जरे प्रक्षिप्यते ' । तच्छ्रुत्वा वृद्धभ्रात्रोक्तं-'मैवं वद, एनं पक्षिणं फलभक्षणविप्रतारणया गृह्णामि' । तदा चैकवंशे शाइबलद्राक्षालु। ब्युपरि पाशयुतो बद्धः । तदा स शनैः शनैः सहकारवृक्षोपरि चटितुमारब्धः । कीरस्तं दृष्ट्वोवाच-" अयमावयोग्रहणार्थ वृक्षोपरि | चटन्नस्ति । परमावां न ग्रहीष्यति । कस्मात् ? वामाक्ष्णा काणकोऽस्ति । वामभागे पीणिकनागोऽस्ति दुमकोटरमध्ये, तं स नई पश्यति । अहमपि वामभागे स्थितोऽस्मि । तेनावां न ग्रहीष्यति" | शुक्योक्तं-" त्वमेव बुद्धिविशारदोऽसि । तव गुणनिष्पन्न नाम । परं तु स्वामिन्मम द्राक्षाया दोहदोऽस्ति । द्राक्षाभक्षणं करोमि । ममानीय समर्पय । येनेच्छां पूरयामि"। शुफेनोक्तं'भद्रे द्राक्षालुंबिपाचे पाशः स्थितोऽस्ति । तेन हेतुना कथं गृह्णामि ?' । शुक्या प्रोक्तं--' चेत् द्राक्षा नानयसि तदा मे प्राण| त्यागो भावीति' । कीरेणोक्तं स्वस्था भव । एप शुक्राक्षो यदा कोटरासन्नः समेष्यति तदा नागस्तस्य श्वास भक्षयिष्यति, तदा च मृतपायो भविष्यति । तदा तब दोहदं पूरयिष्यामि' । तदा तदाक्यं श्रुत्वा सा मौनमाधाय स्थिता । क्षणानन्तरं स दुर्विनीतकुमारो वृक्षमारुरोह । पीणिकस्तस्य श्वासपानाय समागतः । तत्समये तस्य श्वासः पीणिकनागेन भक्षितः । स तत्रैव तरुशाख यामवलंब्य मृतवस्थितः । नागोऽपि मानुपविषप्रयोगेणाचेतनी जातः । सोऽपि तत्रैव स्थितः। उभयोरप्यचैतन्यं जातं । तत्समये कीर उड्डीय चञ्चुघातेन पाशं छित्वा द्राक्षां गृहीत्वा कीरी ददाति इच्छां पूरयति । परस्परं महता प्रेम्णा चंचुः शिरउपरि कृता । शुकः सुखं गृह्णाति । शुकः कीरीमाह्लादयति । अथ श्वेष्ठी मुखमू/कृत्यांगजं निरीक्षते । सुतोऽचेतनरूपो दृष्टः। विरहव्याकुलो जातः । श्रेष्ठी विलपति । करुणस्तरेण वाढं रोदितुं लग्नः । अहो संसारे कृत्रिमस्नेहः । यतः
॥२८॥
on Education internation
For Personal Private Use Only