________________
%% 46
लोकैस्तयोः सुविनीतो दुर्विनीत इति नाम कथितं । सर्वत्र तन्नाम्ना प्रसिद्धौ जातौ । एकदा कनकश्रेष्ठी नानाविधवस्तुभिः पञ्चशतशकटानि भृत्वा भार्यापुत्रयुतो बहुपरिवारपरिवृतः सिंहलद्वीपं प्रति प्रस्थितः । क्षेमेण पथि गच्छन् त्रिंशद्योजनमायातः । तत्रैकं महद्वनमायातं । तत्र श्रीऋषभजिन चैत्यं सप्रभावमस्ति । विविधवृक्षवाटिकापरिकलितं मनोहरं देवक्रीडासदृशं । तत्रैकाम्रवृक्षाधः कनकश्रेष्टी पट्टगृहं कृत्वा स्थितः । क्रमेण सर्वोऽपि सार्थस्तत्र स्थितः । तत्र श्रेष्ठी भोजनानन्तरं सुष्वाप । क्रयाणकचिन्तापरिकलितोऽस्ति । | तदा चैकं शुकयुग्मं श्वेतवर्ण रक्तचंचुचरणयुतं पक्षोपरि रक्तचिह्नयुक्तं बहुप्रेमपरिपूर्ण सहकारवृक्षोपर्युपविष्टं मनुष्यवाचोक्तवंतं शृणोति । तद्वाक्येन रञ्जितः क्रयाणकचिन्तां मुक्त्वा पीयूपरसवद्वाक्यं शृणोति स्म । तथाहि — शुको वदति - ' हे प्रिये अयं कनक श्रेष्ठी बहुभाग्याधिकोऽस्ति' । शुकी वक्ति - " स्वामिन् किं भाग्यं १ अधुना ऋयाणकवस्तूनां लाभो न भवति । कथं भाग्या|धिकः ? " पुनः शुको बक्ति - " हे प्रिये अयं कनकश्रेष्ठी जिनबिंचतीर्थप्रभावनां करिष्यति, तस्मान्महाभाग्याधिकः " । शुकी वदति - किं तीर्थं स्थापयिष्यति ? ' । शुकः कथयति - ' बल्लभे चिटकपर्वते बदरी नाम तीर्थं प्रभाव - यिष्यति' । ततः श्रेष्ठी तत्कर्णपीयूपोपमं वाक्यं श्रुत्वा चिन्तयति - - ' अत्र वने को वक्ति १ ' । ततः श्रेष्ठी पट्टगृहानिगत्य एकान्तदृष्टा पश्यति तदा तत्कीरयुग्मं दृष्ट्वा चिन्तयति - ' नूनमेष कीरो ज्ञानवान् अस्ति । स विशेषं विलोकयन् शृणोति । पुनः कीरी प्राह--" भोः पक्षिराज कीदृशं तीर्थ शैलमयं रत्नमयं वा स्वर्णमयं वा काष्ठमयं वा करिष्यति : " । पुनरपि शुकः प्राह - " हे प्रिये अयं श्रेष्ठी स्पर्शग्रावमयं जिनविवं कारयिष्यति । तत्प्रभावेण महद्यशो भावीति " । तत्समये कनकश्रेष्ठिसमीपे
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org