________________
चरित्र
तप्तायोगोलकल्पस्य गृहस्थस्य व्रतपालनं दुष्करं । व्रतपालनाशक्तानां गृहस्थानां जिनपूजाकरणं निश्चयेन युक्तं । जिनपूजया महालाभो भवति । यतः
यान्ति दुष्टदुरितानि दूरतः, कुर्वते सपदि संपदः पदम् ।
भूषयन्ति भुवनानि कीर्तयः, पूजया विहितया जगद्गुरोः ॥१॥ अतः कारणात् सुश्रद्धः श्रादैः श्रीजिनपूजा कायव । रावणेन जिनपूजया तीर्थकरगोत्रं समुपार्जितं । तथाहि
अथ रावणकथानकम् । कनकपुरनगरे लक्ष्मीनिवासप्रकरे सिंहसेनो भूपतिायेन राज्यं करोति । सिंहवती राझी तस्य नृपस्य भार्याऽस्ति । न्यायेन प्रजा पालयति । तस्मिन्नेव नगरे बहुधनकोटीश्वरः प्रतिष्ठावान् कनकश्रेष्ठी नाम व्यवहारी वसति । देशान्तरव्यापारं करोति । तस्य सुरसुन्दरीतुल्या गुणसुंदरी नाम्ना भार्यास्ति । सा जिनधर्मे दृढाशया। तयोर्दपत्योः परस्परं सुखमनुभवतोः पुत्रद्वयं जातं । तयोः गुणसुन्दरी रूपसुन्दर इति नाम निर्ममे । बालत्वे पंडितपार्श्वे पठितौ च तो पंडितो जातौ । वृद्धस्तु सुविनीतो मिष्टवक्ता सर्वेषां परमानन्दकरः सर्वेषां वल्लभः । लघुस्तु दुर्विनीतः कटुभाषी सर्वेषामनिष्टः । यतः--
रे जिह्वे कटुकस्नेहे मधुरं किं न भाषसे । मधुरं वद कल्याणि लोको हि मधुरप्रियः ॥१॥
4454545455445
॥१२७॥
E-A
hemational
For Personal & Private Use Only
n
ary.org