________________
प्रथमं शिक्षाव्रतं सामायिकताख्यं । तस्यातीचारपञ्चकं “तिविहे दुप्पणिहाणे०" | मनसापि दुःप्रणिधानं आर्तध्य.नं रौद्रध्यानं विचिन्तयति ११ वचसा सावद्यं जल्पति २। कायेन सावधं करोति अप्रमार्जितभूम्यामुपविशति ३ । अनुपस्थापना ४ । चपलचित्तहै तया सामायिकं करोति विकथा वा करोति ५ । द्वितीयं देशावकाशिकाख्यं शिक्षावतं । तस्यातिचारपञ्चकं "आणवणे पेसवणे"।
आनयनं १, प्रेषणं २, शब्दं करोति ३, रूपं दर्शयति ४, पुद्गलोत्क्षेपं करोति ५। दिग्विरतिव्रतं यावज्जीवप्रमाणं, देशावकाशिक | तद्दिनवेलाप्रमाणं । तृतीयं पौषधोपवासाभिधं । तस्यापि पश्चातीचारस्त्याज्याः " संथारुच्चारविही" इत्यादि । अप्रतिलखितदुःप्रतिलेखितशय्यासंस्तारकं करोति ११ अप्रमार्जितदुःप्रमार्जितभृम्यामुपवेशनं शय्यासंस्तारकं करोति । अप्रतिलेखितदुःप्रतिलेखितभूम्यां नीत्यादिपरिष्ठापनं करोति ३ । पौषधं शुद्धमनसा न पालयति ४ । निद्राविकथादिकं करोति ५ । द्वादशमतिथिसंविभागं शिक्षाव्रतं । तस्य पश्चातीचारा ज्ञातव्याः “सचित्तेनिक्खिवणे." अदेयवुद्ध्या शुद्धयमानमाहारादिकमशुद्धं करोति १ । देयबुध्ध्याशुद्धयमानमाहारादिकं शुद्धं करोति २। अचित्तं वस्तु सचित्तवस्तुना समाच्छाद्य मुञ्चति ३ । साधौ गृहमागते विलंबन दानं ददाति ४। मत्सरेण दानं ददातीति पञ्चमोऽतिचारः ५। श्राद्धनामुना प्रकारेण सम्यक्त्वमूलद्वादशवतानि आनंदकामदेववत पालनीयानि । तान्यपि सिद्धिदायकानि भवन्ति । यतःसम्यक्त्वोदारतेजा नवनवफलदावर्तरूपव्रतालि-सिद्धान्तोक्तैकविंशत्यमलगुणगतिश्राद्धधर्मस्तुरंगः। प्रापय्यान्तं भवाटेर्नयति शिवपुरं कामदेवादिवत्त-न्मिथ्यात्वाधीनशंकादिकह्यहरतो यत्नतो रक्षणीयः ।।
Jain Education international
For Personal & Private Use Only
www.jainelibrary.org