SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ र्श्व० १२६॥ चतुष्पदालीकं २ । भूम्यलीकं ३ | न्यासापहरणं ४ | कूटसाक्षिभरणं ५ । तृतीयमदत्तादानमणुत्रतं, तस्यापि पञ्चातिचाराः “ तेनाहडप्पओगे" इत्यादि । तस्करानीतं वस्तु गृह्णाति १ । तस्करस्य प्रयोगमीलनं २ | दाणचोरीकरणं ३ । कूटतौल्यमानमापकरणं ४ | सरसविरसवस्तुनोमेंलनं क्रियते इति पञ्चमोऽतिचारः ५ । तुर्यं स्थूलमैथुनवतं, तस्यापि पञ्चातिचाराः “ अप्परिग्गहियाइत्तरेत्यादि” । भाटकं दत्वा दास्यादिकं सेवते १ । वेश्यादिगमनं करोति २ । कामक्रीडां प्रचुरामत्यासक्तः करोति ३ । अन्यजनानां विवाहकरणं विवाहमीलनं [च] ४ | कामभोगे तीव्राभिलापरूपः पञ्चमोऽतिचारः ५ । पञ्चमं परिग्रहपरिमाणं अणुव्रतं । तस्यापि पञ्चातिचाराः 'धणधन्नखित्तवत्थु " इत्यादि । धनधान्यप्रमाणातिक्रमः १ । क्षेत्रवास्तुप्रमाणातिक्रमः २ । रूप्यस्वर्णप्रमाणातिक्रमः ३ । क्रूप्यप्रमाणातिक्रमः ४ । द्विपदचतुष्पदप्रमाणातिक्रमः ५ । अथ त्रीणि गुणत्रतानि । तत्र प्रथमं गुणवतं दिग्विरतित्रतं । तस्य पञ्चातिचाराः 'गमणस्स य परिमाणे " इत्यादि । ऊर्ध्वदिशि प्रमाणातिक्रमः १ । अधोदिशि प्रमाणातिक्रमः २ । तिर्यग्दिशि प्रमाणातिक्रमः ३ । क्षेत्रवृधिः, कार्योत्पन्ने चैकां दिशं संक्षिप्यान्यदिशो वृद्धिं करोति इति तुर्योऽतिचारः ४ । दिक्परिमाणं न स्मारयति ५ । द्वितीयं गुणवतं भोगोपभोगाख्यं । तत्र सकृदेव भुज्यते यः स भोगः अन्नभृंगारादिकः, पुनः पुनर्भोग्य उपभोगोङ्गनादिकः । एतस्य व्रतस्य भोजनतः - पञ्चातिचारा: " सच्चित्ते पडिबद्धे " । सचित्ताहारस्य भक्षणं २ । सचित्तप्रतिबद्धस्य भक्षणं २ । अग्निवारिणाल्पपाचितं तद्भक्षणं ३ | उलकोंबिकापृथुकपर्पटिका भक्षणं ४ । तुच्छौषधिभक्षणं ५ । कर्मतः पञ्चदशकानि तु कर्मादानानि पूर्वं व्याख्यातानि सन्ति । अनर्थदंडाख्यं तृतीयं गुणवतं । तस्य पञ्चातिचाराः “कंदप्पे कुक्कुईए” । कंदर्पवचनं १ | भंडवच्छरीरे कुचेष्टां करोति जनानां हास्यमुत्पादयति २ । असंबद्धं जल्पति ३ । अधिकरणं करोति ४ । भोगोपभोगवस्तुषु तीव्राभिलाषः ५ । अथ चत्वारि शिक्षाव्रतानि व्याख्यायंते । Jain Education International For Personal & Private Use Only चरित्र ||| १२६ ॥ www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy