SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ या देवे देवताबुध्धिर्गुरौ च गुरुतामतिः । धर्मे च धर्मधीः शुध्धा सम्यक्त्वमिदमुच्यते ॥ १ ॥ सम्यक्त्वाद्विपरीतं मिथ्यात्वं त्याज्यं । सम्यक्त्वस्य पञ्चातिचाराः “ संकाकंखविगिच्छा " शंका देवगुरुधर्माणां शंका सत्यं वा कूटं वा १ । आकांक्षाऽन्येषां हरिहरसूर्यादीनां प्रभावं दृष्ट्वा तस्य वा जिनधर्मस्यापि वांछां करोति, शंखेश्वरादीनां भोगं मनुते २ । विचिकित्सा धर्मसंबन्धिफलसंदेहः, तथा देवगुरुधर्माणां निन्दा स तृतीयोऽतिचारः ६ । अन्यदर्शनीयस्य प्रशंसा ४ । अन्यदर्शनीयेन सह परिचयः, तस्य च संस्तवनं करोति ५ । इदं सम्यक्त्वं पञ्चातिचाररहितं श्राद्धैः परिपालनीयं । द्वादशव्रतमध्ये प्रथममणुव्रतं प्राणातिपातं परिपालनीयं । श्राद्धानां धर्मः सपादविश्वोऽस्ति । जीवा सुहुमा थूला संकप्पारंभओ भवे दुविहा । सावराहनिखराहा साविक्खा चेव निरविक्खा ॥ १ ॥ अस्या गाथाया व्याख्यानं गुरुमुखाज्ज्ञेयं । प्रथमाणुव्रतस्य प्राणातिपातस्य पञ्चातिचारास्त्याज्याः । “ वहबंधछविच्छेए " वधो द्विपदचतुष्पदादीनां निर्दयत्वेन मुष्टियष्ट्यादिभिर्घातं करोति स वधरूपोऽतिचारः १ । बन्धः निविडबन्धनेन द्विपदचतुष्पदादीनां बन्धः २ । छविच्छेदः कर्णकंबलादिच्छेदनं पशूनां करोति ३ । अतिभारः बहुभारारोपणं करोतीति तुर्योऽतिचारः ४ | भक्तपानविच्छेदं करोतीति पञ्चमोतिचारः ५ । द्वितीयं मृषावादमणुव्रतं, तस्यापि पञ्चातिचाराः “सहसारहस्सदारे" । सहसाकारेण कस्यापि कूटालीकं दीयते १ । यदकान्ते केनापि सहालोचनं क्रियते तस्य प्रकाशनं करोति २ । मृषोपदेशः कूटोपदेशो दीयते ३ । स्वकीयस्त्रिया गुह्यप्रकाशनं ४ । कूटलेखलिखनं ५। तथा कन्यागोभूम्यलीकानि एतानि पञ्च कूटानि सुधीर्वर्जयेत् - कन्यालीकं १ । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy