________________
**
चरित्र
*
श्रीहेमसोमसूरीश ऋद्धिवृद्धिसमृद्धिदः । पार्श्वनाथो जिनो वः स्तान्मनोवाञ्छितसिद्धये ॥१॥
इति श्रीतपागच्छीयश्रीपूज्यश्रीहेमविमलसरिसंतानीयश्रीहेमसोममरिविजयराज्ये पं० संघवीरगणिशिष्य पं० उदयवीरगणिविरचिते श्रीपार्श्वनाथगद्यबन्धलघुचरित्रे भगवद्विवाहदीक्षाकेवलज्ञानसमवसरणदेशनाव
नो नाम षष्ठः सर्गः ॥६॥ पार्श्वनाथचरित्रस्य सर्गः षष्ठस्ततो मुदा। पंडितादेयवीरेण गद्यबन्धेन निर्मितः॥१॥
- अथ सप्तमः सर्गः।
*
***
- पार्श्वनाथं प्रणम्याहं वन्द्यमानपुरन्दरम् । ऊचेऽहं सप्तमं सर्ग कथाकल्लोलसुन्दरम् ॥१॥
अथ श्रीपार्श्वनाथप्रभोराद्यगणधरः श्रीआर्यदत्तो देशनां व्यधात् । तद्यथा-" भो भविका प्रथमं मनीषिणां यतिधर्मः शीघ्र| मोक्षदायक एव । तत्राशक्ताः श्राद्धधर्म प्रकुर्वन्तु । असारे संसारे धर्म एव साररूपः । गृहस्थः शीले तपसि क्रियायामशक्तः, तथापि तेन श्रद्धा कार्या" । तदाऽमात्येन पृष्टं-भगवन् श्राद्धधर्म कथयतु । तदा गणधरेणोक्तं । श्रूयताम
गृहस्थानां सम्यक्त्वमूलो द्वादशवतरूपो धर्मः । तत्रादौ धर्मस्य मूलं सम्यक्त्वं ।
॥१२५॥
*
in Education International
For Personal & Private Use Only
www.jainelibrary.org